Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute
View full book text
________________
१६
मानसोल्लासः।
[विशतिः २ अन्तःपुरे पुरन्ध्रीणां रम्याणि भवनानि च । निकेतनानि पुत्राणाममात्यानां गृहाणि च ॥ १०७६ ॥ सचिवानां निवासाश्च मन्त्रिणां सदनानि च । अन्येषां च मनुष्याणां मन्दिराणि बहूनि च ।। १०७७ ॥ मन्दुरा गजशालाच विविधानापणानपि । भस्मसात् कुरुते यत् तु स दण्डः स्थानदाहकः ॥ २०७८ ॥ देशत्यागपरिभ्रष्टः कृतभोगपरिच्युतः । गिरिकन्दरकान्तारनिकुञ्जभवनाश्रयः ।। १०७९ ॥ वियुक्तो दारपुत्रैश्च बन्धुभिः सचिवैस्तथा । धुत्पिपासापरीतश्च चिन्ताशोकसमन्वितः ॥ १०८० ॥ यानासनविहीनश्च गजवाजिविवर्जितः । पत्रोरेवंविधो दण्डो देशनिर्वासकः स्मृतः ॥ १०८१ ॥ ज्ञात्वा स्वरवलं राजा बलं भूमेस्तथैव च । कुर्वीत सर्वकार्याणि सामं तु विशेषतः ॥ १०८२ ।। अतः स्वरबलं वक्ष्ये दशधा प्रविभाजितम् । मात्रा वर्णों ग्रहो जीवो राशिरेवं च पञ्चधा ॥ १०८३ ।। बाल कुमारस्तरुणो वृद्धश्चास्तगतः स्वरः । द्वितीयः पञ्चभेदोऽयमित्थं दशविधः स्मृतः ॥ १०८४ ॥
अकारः प्रथमस्तस्मिनिकारस्तदनन्तरम् । उकारश्चैवमेकार ओकारो मातृका पुरा ॥ १०८५ ॥
ककारादिहकारान्तान् वर्णान् डणवर्जितान् । पचत्रिंशत्सु कोष्ठेषु पञ्च पञ्च क्रमान्न्यसेत् ॥ १०८६ ॥
१ ABCE कृतो भो । २ B दाप्त ।
Aho ! Shrutgyanam

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176