Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute
View full book text
________________
१२२
मानसोङ्गासः ।
न सोऽस्ति लोके दानेन बशगो यो न जायते । देवा अपि भवन्तीह वशगाः सर्वदेहिनाम् || १०२९ ॥
[ विंशतिः १
दानं श्रेयस्करं श्रेष्ठं दानं सर्वार्थसाधकम् । दानशीको नृपो लोके देववत् पूज्यते जनैः ॥ १०३० ॥ इति दानाध्यायः ।। १९ ॥
उपायत्रितयेनापि यो न शक्यो भवेद् रिपुः । तस्य दण्डं प्रयुञ्जीत बलवान् यदि भूपतिः ।। १०३१ ॥
सामादीनां प्रयोक्तारमशक्तं मन्वते द्विषः । तस्माद् दण्डं प्रयुञ्जीत दण्डो हि वशकृनृणाम् || १०३२ ॥
बलिन तथा कार्या दण्डा द्वादशभेदजाः । अशक्तेन त्रयः कार्या एवं पञ्चदश स्मृताः ।। १०३३ ॥
अन्ये च दण्डाः कर्तव्या भूभृता धर्मवर्तिना I वधः क्लेशोऽर्थहरणो जनानां वृत्तरक्षकः ।। १०३४ ॥
देशनाशश्च शत्रूणां जनाङ्गच्छेदकस्तथा । गोग्रहो धान्यहरणो बन्दिग्राहस्तथाऽपरः || १०३५ ।।
देशहारो धनादानः सर्वस्वहरणोऽपरः । दुर्गभङ्गः स्थानदाहो देश निर्वासकस्तथा ॥ १०३६ ॥
युद्धावहो महादण्डः शत्रुसंहारकारकः । उपायानां तुरीयश्च कथितः सोमभूभुजा ।। १०३७ ॥
वनानि यत्र छेद्यन्ते भेद्यन्ते च जलाशयाः । ग्रामाच यत्र दह्यन्ते स दण्डो देशनाशकः || १०३८ ।।
नासिका श्रवणद्वन्द्वं छिद्यते देशवासिनाम् । जनानां यत्र दण्डोऽसौ जनाङ्गच्छेदनो मतः ।। १०३९ ॥ १ D छिद्यन्ते भिद्यन्ते
Aho! Shrutgyanam

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176