Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute

View full book text
Previous | Next

Page 151
________________ अध्याय: १९ ] 16 मानसोल्लासः । पुत्रपौत्रमपौत्रेण दत्तं नैव विलुप्यते । अचाल्यत्वेन यत् किश्चित् तद् दानं शासनं स्मृतम् ॥ १०१७ ॥ रत्नेन जातरूपेण घटितं चारु भूषणम् । दीयते यत् तु तद् दानं भूषाख्यं समुदाहृतम् ॥ १०९८ ॥ नानावर्णविचित्राणि नानासूत्रमयानि च । नानादेशसमुत्थानि सूक्ष्माणि च धनानि च ॥ १०१९ ॥ वस्त्राण्यतिमनोज्ञानि प्रभूतानि प्रसादतः । दीयते यत्तु तद्दानं वसनं परिकीर्तितम् ।। १०२० ॥ आसनं चामरं छत्रं यानं सम्माननोचितम् । मानवद् दीयते यत् तु तद् दानं प्रतिपत्तिकम् ।। १०२१ ॥ रौप्य काञ्चन- रत्नानि सञ्जायन्ते यतो भुवः । साखनिर्दीयते यत् तु तदाकरमितीरितम् ।। १०२२ ॥ दीयन्ते यत्र निष्काणि प्रभूतानि वराणि च । तद् दानं रुक्मजं प्रोक्तमर्थशास्त्रविचक्षणैः ॥ १०२३ ॥ भूषणैर्भूषिता कन्या लक्षणैश्च समन्विता । विधिवद् दीयते यत् तु कन्यादानं तु तद् विदुः ॥। १०२४ ॥ रूपयौवनसम्पन्ना नृत्यगीतविशारदा । बेश्या प्रदीयते यत् तु तद् दानं वैश्यमुच्यते ।। १०२५ ॥ यत्रादया बहवः सन्ति वहित्रस्योपजीविनः । रत्नाकरस्य वेलायां बहुपण्यप्रचारिणः || १०२६ ॥ अपूर्वोपायनोपेतं पट्टनं बहुवस्तुदम् । दीयते यत्तु तद्दानं बैलाकरमिति स्मृतम् ।। १०२७ ॥ यदसाध्यं हि भेदस्य तद् दानेन प्रसिध्यति । पशुदत्तेनेट् भवति दानेनोभयलोकजित् ।। १०२८ ॥ १ D विशारदैः । १२१ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176