Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute

View full book text
Previous | Next

Page 141
________________ मानसोल्लासः । जलजाद् व्योमजः पश्चान्मित्रयुद्धाद् भवेन्मृतिः । विपरीतक्रमद्धत त्रुतो मृतिसूचकौ ॥ ९०४ ॥ अध्याय: १३ ] Q आय-मारुतौ शब्दौ क्रमाज्जातौ धनापहौ । मृतिसंसूचकौ ज्ञेयौ विपरीतक्रमोदितौ ।। ९०५ ।। क्रमेण व्युत्क्रमेणापि नादौ तेजस - नाभसौ । कुरुतः कलहं चोग्रं भयं च सुमहत्तरम् ॥ ९०६ ॥ व्यत्यासात् क्रमशो वाऽपि शब्दौ वायव्य - नाभसौ । वित्तनाशं रणे मृत्युं नरस्य कुरुते ध्रुवम् ॥ ९०७ ॥ अन्यैरभिहितो भौमः कार्यसिद्धिविघातकृत् । अधिकः पार्थिवो नादः सर्वकामफलप्रदः ॥ ९०८ ॥ त्रयाणां वा चतुर्णां वा पञ्चानां श्रवणे सति । पश्चाच्छ्रुतोऽधिको वाऽपि पार्थिवो ध्वनिरुत्तमः ॥ ९०९ ॥ पार्थिवं सलिलं नादं स्वस्थानादूर्ध्वगस्तरोः । कुर्वन् लाभं सुखं कीर्ति जयं शंसति पिङ्गलः ॥ ९९० ॥ अवतीर्य निजस्थानात् कुर्वन नादौ शुभावहौ । कनिष्ठं फलमाचष्टे क्रेशालाभं विहङ्गमः ।। ९११ ॥ वृक्षस्याग्रे एवं कुर्वन् पार्थिवं वारिजं खगः । पुष्कलं फलमाख्याति मध्ये मध्यमधो लघु ॥ ९९२ ॥ विन्यस्य वदने भक्ष्यं भुक्त्वा वा तद् विहङ्गमः । रम्यस्थानस्थितः कुर्वन् शुभौ नादौ शुभं दिशेत् ॥ ९१३ ॥ भक्ष्यमुत्सृज्य वक्त्रस्थं यदा वक्ति शुभौ ध्वनी । तदा शंसति सम्पत्तेनं पिङ्गविहङ्गमः ॥ ९९४ ॥ १ D अतुलं च सुखं । Aho! Shrutgyanam १११

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176