Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute

View full book text
Previous | Next

Page 147
________________ अध्यायः १७] मानसोल्लासः। सन्धि च विग्रहं चैव मानमासनमाश्रयम् । द्वैधीभावं च यो वेत्ति प्रयोक्तुं शत्रुमण्डले ॥ ९७० ॥ बलवान् कोशसम्पन्नो गुणषट्कक्रियाबुधः । स कृत्स्नां पृथिवीं मुझे देशकालसहायवित ॥ ९७१ ॥ उपायेवृत्तमं साम भेदो मध्यम इष्यते । उपप्रदानमधमं दण्डः कष्टतमः स्मृतः ।। ९७२ ॥ अपायरहितत्वाच द्रव्यहानेरभावतः । सिद्धिमायान्ति कार्याणि ततः सामोत्तमं मतम् ॥ ९७३ ।। कुत्सिता भेदमायान्ति न ते विश्वासभूमयः । अतः सन्देहरूपत्वाद् भेदोऽयं मध्यमः स्मृतः ।। ९७४ ॥ वित्तस्य संक्षयः पूर्व सिद्धिदैवे व्यवस्थिता । उपप्रदानमधमं तेन प्रोक्तं मनीषिभिः ।। ९७५ ॥ लाभार्य क्रियते युद्धं रणे संशयितो जयः । राज्यं च जीवितं चैव दण्डः कष्टतमस्ततः ।। ९७६ ॥ कुपितस्य प्रियं वाक्यं कोपवृद्धौ प्रजायते । यथाऽऽज्यस्य प्रतप्तस्य ज्वालायै जलबिन्दवः ॥ ९७७ ॥ कुलीनेषु कृतज्ञेषु साईचित्तेषु साधुषु । कार्यार्थेषु च मेधावी पूर्व साम प्रयोजयेत् ।। ९७८ ॥ प्रथमं कर्णसुभगं द्वितीयं दैविक तथा । तृतीयं स्मारकं प्रोक्तं चतुर्थ लोभनं स्मृतम् ॥ ९७९ ॥ तथैव पञ्चमं साम निजार्पणमिति स्मृतम् । उपायेषूत्तमं साम कथितं निरुपद्रवम् ॥ ९८० ॥ मधुरैः सुखसंलापैरन्यैश्च हृदयङ्गमैः । एवं वचोभिर्यत् साम तत् कर्णसुभगं स्मृतम् ॥ ९८१ ॥ Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176