________________
अध्यायः १७]
मानसोल्लासः। सन्धि च विग्रहं चैव मानमासनमाश्रयम् । द्वैधीभावं च यो वेत्ति प्रयोक्तुं शत्रुमण्डले ॥ ९७० ॥ बलवान् कोशसम्पन्नो गुणषट्कक्रियाबुधः । स कृत्स्नां पृथिवीं मुझे देशकालसहायवित ॥ ९७१ ॥ उपायेवृत्तमं साम भेदो मध्यम इष्यते । उपप्रदानमधमं दण्डः कष्टतमः स्मृतः ।। ९७२ ॥ अपायरहितत्वाच द्रव्यहानेरभावतः । सिद्धिमायान्ति कार्याणि ततः सामोत्तमं मतम् ॥ ९७३ ।। कुत्सिता भेदमायान्ति न ते विश्वासभूमयः । अतः सन्देहरूपत्वाद् भेदोऽयं मध्यमः स्मृतः ।। ९७४ ॥ वित्तस्य संक्षयः पूर्व सिद्धिदैवे व्यवस्थिता । उपप्रदानमधमं तेन प्रोक्तं मनीषिभिः ।। ९७५ ॥ लाभार्य क्रियते युद्धं रणे संशयितो जयः । राज्यं च जीवितं चैव दण्डः कष्टतमस्ततः ।। ९७६ ॥ कुपितस्य प्रियं वाक्यं कोपवृद्धौ प्रजायते । यथाऽऽज्यस्य प्रतप्तस्य ज्वालायै जलबिन्दवः ॥ ९७७ ॥ कुलीनेषु कृतज्ञेषु साईचित्तेषु साधुषु । कार्यार्थेषु च मेधावी पूर्व साम प्रयोजयेत् ।। ९७८ ॥ प्रथमं कर्णसुभगं द्वितीयं दैविक तथा । तृतीयं स्मारकं प्रोक्तं चतुर्थ लोभनं स्मृतम् ॥ ९७९ ॥ तथैव पञ्चमं साम निजार्पणमिति स्मृतम् । उपायेषूत्तमं साम कथितं निरुपद्रवम् ॥ ९८० ॥ मधुरैः सुखसंलापैरन्यैश्च हृदयङ्गमैः । एवं वचोभिर्यत् साम तत् कर्णसुभगं स्मृतम् ॥ ९८१ ॥
Aho ! Shrutgyanam