Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute

View full book text
Previous | Next

Page 146
________________ मानसोल्लासः। [विंशतिः २ मिध्याकरण इत्यन्यस्तथा चोभयवेतनः । युग्मप्राभृतकश्चेति द्वैधीभावोत्र पञ्चधा ॥ ९५९ ॥ चित्ते विरोधमाधत्ते वचसा प्रियभाषणम् । द्वैधीभावोऽयमाख्यातो मिथ्याचित्तोऽर्यकोविदः ॥ ९६० ॥ वचसा पियमाख्याति कर्मणा वर्ततेऽन्यथा । द्वैधीभावोऽपरः प्रोक्तो मिथ्यावचनसंज्ञकः ॥ ९६१ ॥ स्तोकं स्तोकं किमप्यादौ कार्य विश्वासकारणात् । करोति भावदुष्टोऽसौ महत् कार्य विनाशयेत् ॥ ९६२ ॥ एवं यः कुरुते मिथ्या रिपोशाय पार्थिवः । मिथ्याकरणनामाऽसौ द्वैधीभावः प्रकीर्तितः ॥ ९६३ ।। गुप्तं वेतममेकत्र तथाज्यत्र प्रकाशितम् । गृहीत्वा यश्चरन् मायी गुप्तं दस्युहितेच्छया ॥ ९६४ ।। अलक्षितो रिपोर्मन्त्रं भिच्या स्वस्वामिनेऽर्पयेत् । यत्र तिष्ठति द्वैविध्यात् स स्यादुभयवेतनः ॥ ९६५ ॥ मद्रिधु साधयस्वेति ढौकितं पाभृतं महत् ।। अन्येनापि तमुद्दिश्य दत्तं वाजि-गजादिकम् ॥ ९६६ ॥ संवाहं प्रेषयिष्यामि साधयिष्यामि ते रिपुम् । इति ब्रुवन् विरुद्धाभ्यां द्वाभ्यामर्थ समाहरेत् ।। ९६७ ।। तयोरज्ञातरूपः सन् यत्र राजा प्रवर्तते । द्वैधीभावं तमप्याहुर्युग्ममाभृतकं बुधाः ।। ९६८ ॥ द्वैधीभावं समालम्ब्य य एवं वर्तते नृपः । विपक्षलक्ष्मीमादत्ते मन्त्ररक्षाविचक्षणः ॥ ९६९ ॥ इति द्वैधीभावाध्यायः ॥ १६ ॥ Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176