________________
मानसोल्लासः ।
जलजाद् व्योमजः पश्चान्मित्रयुद्धाद् भवेन्मृतिः । विपरीतक्रमद्धत त्रुतो मृतिसूचकौ ॥ ९०४ ॥
अध्याय: १३ ]
Q
आय-मारुतौ शब्दौ क्रमाज्जातौ धनापहौ । मृतिसंसूचकौ ज्ञेयौ विपरीतक्रमोदितौ ।। ९०५ ।।
क्रमेण व्युत्क्रमेणापि नादौ तेजस - नाभसौ । कुरुतः कलहं चोग्रं भयं च सुमहत्तरम् ॥ ९०६ ॥
व्यत्यासात् क्रमशो वाऽपि शब्दौ वायव्य - नाभसौ । वित्तनाशं रणे मृत्युं नरस्य कुरुते ध्रुवम् ॥ ९०७ ॥ अन्यैरभिहितो भौमः कार्यसिद्धिविघातकृत् । अधिकः पार्थिवो नादः सर्वकामफलप्रदः ॥ ९०८ ॥
त्रयाणां वा चतुर्णां वा पञ्चानां श्रवणे सति । पश्चाच्छ्रुतोऽधिको वाऽपि पार्थिवो ध्वनिरुत्तमः ॥ ९०९ ॥
पार्थिवं सलिलं नादं स्वस्थानादूर्ध्वगस्तरोः । कुर्वन् लाभं सुखं कीर्ति जयं शंसति पिङ्गलः ॥ ९९० ॥
अवतीर्य निजस्थानात् कुर्वन नादौ शुभावहौ । कनिष्ठं फलमाचष्टे क्रेशालाभं विहङ्गमः ।। ९११ ॥
वृक्षस्याग्रे एवं कुर्वन् पार्थिवं वारिजं खगः । पुष्कलं फलमाख्याति मध्ये मध्यमधो लघु ॥ ९९२ ॥
विन्यस्य वदने भक्ष्यं भुक्त्वा वा तद् विहङ्गमः । रम्यस्थानस्थितः कुर्वन् शुभौ नादौ शुभं दिशेत् ॥ ९१३ ॥
भक्ष्यमुत्सृज्य वक्त्रस्थं यदा वक्ति शुभौ ध्वनी । तदा शंसति सम्पत्तेनं पिङ्गविहङ्गमः ॥ ९९४ ॥
१ D अतुलं च सुखं ।
Aho! Shrutgyanam
१११