________________
११२
मानसोल्लासः।
[विंशतिः २ अर्चितं पादपं त्यक्त्वा पादपान्तरमाश्रितः। रचयन् शोभनं शब्दं दिशेद् देशान्तरे सुखम् ॥ ९१५ ॥ अम्बरे शुष्कवृक्षे वा भग्नशाखे च कोटरे । कुर्वन् नादं शुभं पिङ्गो भयमुग्रं प्रशंसति ॥ ९१६ ॥ शुभस्थानस्थितो वापि गत्वा वाऽथ प्रदक्षिणम् । कुर्वन् शान्ते शुभादन्यनादं शंसत्यशोभनम् ॥ ९१७ ॥ वामतः शान्तदिग्वैर्ती कुर्वाणः शोभनं ध्वनिम् । शोभनं फलमाचष्टे चिरकालेन पिङ्गलः ॥ ९१८ ॥ भौमाप्यतेजसैन दर्जल्पन्ती शुभदेशगा। पिङ्गला भीतिमाचष्टे मुखं लाभं जयं यशः ॥ ९१९ ॥
इति पिङ्गलाशकुनम् ॥ अर्चयित्वा गणाधीशं सर्वविघ्नविनाशनम् । कुमार्या सहिता नार्यस्तिस्रः मुते जनेऽखिले ॥ ९२० ॥ अक्षतैः पूरयेयुस्ता यत किश्चित् कुडवादिकम् । चण्डिकायै नमः कृत्वा सतकृत्वोऽभिमन्त्रितम् ॥ ९२१ ॥ सम्मार्जनीकृतावेष्टे स्थापयेयुगणाधिपम् । बजेयुस्तं समादाय रजकस्य निकेतनम् ॥ ९२२ ॥ तद्नेहस्य पुरोभागे निक्षिपेयुः सिताक्षतान् । मनोगतं समुद्दिश्य शृणुयुः मुसमाहिताः ॥ ९२३ ॥ श्रूयते वचनं किश्चिद् रजकालयमध्यगम् । नार्या नरेण बालेन मोक्तमन्येन केनचित् ॥ ९२४ ॥ स्वैरसंलापनोद्भूतं शुभं वा यदि वाऽशुभम् । शृण्वन्तीभिः फर्क क्षेयं तद्वाक्यार्थविचारतः ॥ ९२५ ॥
१० वासतः। २D दिग्भागे ।
Aho ! Shrutgyanam