________________
१११
अध्यायः १५
मानसोल्लासः। चण्डालनिलयेऽप्येवं श्रवणे बोधने क्रमः। यद् अयुर्वचनं तत्र तत् तथा न तदन्यथा ॥ ९२६ ॥ शाकुन शास्त्रमालोक्प भाविकार्यावबोधकम् । शकुनं वर्णितं सम्यक् सोमेश्वरमहीभुजा ॥ ९२७ ॥
इत्युपश्रुतिशकुनम् ॥ इति यात्राध्यायः ॥ १३ ॥ अवृष्टया तोयरहिते दुर्भिक्षे परकान्विते । परेषां दुःस्थिते देशे नैव यायात् कथश्चन ॥ ९२८ ॥ परस्परविरोधेन क्षीयमाणेषु शत्रुषु । तद्विनाशो भवेद् यावत् तावत् तिष्ठतु बुद्धिमान् ॥ ९२९ ॥ स्वस्थासनमुपेक्षाख्यं मार्गरोषासनं तथा । दुर्गसाध्यासनं चैत्र राष्ट्रस्वीकरणासनम् ॥ ९३० ॥ रमणीयासनं चान्यत् तथा च निकटासनम् । दूरमार्गासनं चैव प्रलोभाख्यं तथैव च ॥ ९३१ ॥ पराधीनासनं चैतद् दशमं परिकीर्तितम् । इतोऽधिकं न दृश्येत नीतिझरन्यदोसनम् ॥ ९३२ ।। निष्कण्टके तथा राज्ये संहते वैरिमण्डले । स्वस्थाने या स्थिती राज्ञां स्वस्थासनमिति स्मृतम् ॥ ९३३ ॥ यदस्माभिरनुष्ठेयं देवेन क्रियते हि तत् । उग्रदण्डप्रयोगाश्च व्यसनाद् वृत्यदर्शनात् ॥ ९३४ ॥ दुर्भिक्षान्मरकापाताद् विनाशं यास्यति ध्रुवम् । इत्युपेक्ष्य नृपस्थानमुपेक्ष्यासनमुच्यते ॥ ९१५ ॥ नद्याः पूर्णपवाहेण गमनं रोधितं यदि ।
तेन दोषेण यत् स्थानं मार्गरोधासनं स्मृतम् ॥ ९३६ ॥ | ABCE तिष्ठेत । २ D थास ।
15
Aho ! Shrutgyanam