________________
मानसोल्लासः ।
[विंशतिः । दुर्ग ग्रहीतुमुधुक्तो वारयन् यवसादिकम् । तदुपान्ते वसेद् यस्तु दुर्गसाध्यासनं हि तत् ॥ ९३७ ॥ बलादुपार्जिते राष्ट्र वैशार्थ यत्र तिष्ठति । तत् स्थानं कथितं राज्ञां राष्ट्रस्वीकरणासनम् ।। ९३८ ॥ विजिगीषुर्नपो गत्वा रिपुं हत्वा रणाङ्गणे । रम्यां वसतिमालोक्य यत्र तिष्ठति सानुगः ॥ ९३९ ॥ यवसेन्धनभूयिष्ठे जलधान्यसमन्विते । तत् स्थानं नीतितत्वझै रमणीयासनं स्मृतम् ।। ९४० ॥ दूरस्थस्य रिपो राजा विनाशाय समुद्यतः । समीपे यत् स्थिति कुर्यात् तद् भवेन्निकटासनम् ॥ ९४१ ॥ दूरदेशं नृपो गत्वा कृत्वा कार्यमशेषतः । विज्ञाय स्वपुरं दूरं पत्र तिष्ठत्यनाकुलम् ॥ ९४२ ।। वर्ष व्यत्ययो यावच्छरत्कालस्य सम्भवः । तावद् यदुचितं स्थानं दूरमार्गासनं हि तत् ।। ९४३ ॥ हस्त्यश्व-धन-रत्नानि दुर्ग राष्ट्र तथैव च । किञ्चित्कालं स्थितिः कार्या रिपुं हत्वा ददामि ते ॥ ९४४ ॥ इति प्रलोभितोऽन्येन यत्र तिष्ठति भूमिपः । तत् प्रलोभासनं नाम कथितं नोतिवेदिभिः ।। ९४५ ।। मासे पक्षे दशाहे वा षडहे पश्चरात्रके । माभृतं ते ददामीति प्रैलोभ्य स्थापयेन्नृपम् ॥ ९४६ ॥ आशया धार्यमाणस्तु तत्र तिष्ठति यचिरम् । प्रलोभासनमेवं या तदाख्यातं मनीषिभिः ॥ ९४७ ॥ १ A वासार्थ ॥ २ B प्रभृतं तन्मनीषिभिः ।।
Aho ! Shrutgyanam