________________
मानसोल्लासः ।
स्नेहाद् वा वैरिभावाद वा गन्तुं देशं स्त्रर्क न यः । लभते तस्य तत् स्थानं पराधीनासनं स्मृतम् ॥ ९४८ ॥
अध्यायः १६ ]
इत्यासनाध्यायः ॥ १४ ॥
स्वयं हीनबलो राजा जयहेतुं न पश्यति ।
बलिना पीड्यमानो यः क्षेमस्थानं समाश्रयेत् ॥ ९४९ ॥
सत्संश्रयोऽन्यसंसर्गे दुर्गसंश्रयणं तथा । इति भेदास्त्रयः प्रोक्ताश्चतुर्थो नोपलभ्यते ॥ ९५० ॥
महता शत्रुणा यस्तु पीडितोऽल्पबलो नृपः । सत्यसन्धं परिज्ञाय तमेवाश्रयते बुधः ॥ ९५९ ॥ बहून वा सद्गुणान् वीक्ष्य शत्रुं यस्तु समाश्रयेत् । तं गुणं नीतितत्वज्ञाः सत्संश्रयमुशन्ति हि ॥ ९५२ ॥
शत्रुणा बाध्यमानो हि स्वयं वाऽप्यनुपायकः । गुणहीनं रिपुं ज्ञात्वा श्रयेदन्यं गुणाधिकम् ॥ ९५३ ॥
afai क्रियया युक्तं धर्मज्ञं सत्यवादिनम् । आश्रयेदीदृशं यस्तु सोऽन्यसंश्रय उच्यते ।। ९५४ ॥
वैरिणा बलयुक्तेन पीडितो ह्यसमो रिपुः । यत् तु संश्रयते दुर्गे दुर्गसंश्रय इष्यते ॥ ९५५ ॥
इत्याश्रयाध्यायः ॥ १५ ॥
निर्द्विषतोर्मध्ये वाचाऽऽत्मानं समर्पयेन् । द्वैधीभावेन वर्तेत काकाक्षिवदलक्षितः ॥ ९५६ ॥
लाभाद् वाऽपि भयाद् वाऽपि योगक्षेमार्थमुद्यतः । द्वयोर्मध्ये चिरं कालं द्वैधीभावेन यापयेत् ॥ ९५७ ॥
नीतिशास्त्रार्थसारज्ञैनमभेदार्थयनतः ।
मिथ्या चित्तः समादिष्टो मिथ्यावचन एव च ।। ९५८ ॥ १ ABDE र्पयेत् ।
Aho! Shrutgyanam
११५