Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute
View full book text
________________
११०
मानसोल्लासः ।
आप्य मारुतयोर्वैरं बलवान् मारुतस्तयोः । मध्यस्थात्राम्बरायौ नाभसस्तु तयोर्बली
[ विंशतिः २
।। ८९२ ।।
नैव शत्रू न मित्रे च नामसाध्यौ परस्परम् । तथापि नामसो नादः प्रबलः परिकीर्तितः ।। ८९३ ॥
पार्थिवायोमैत्री तत्र भौमो बली स्वरः । अनलानिलयोमैत्री बलवाननिलस्तयोः || ८९४ ॥
जल मारुतौ शब्दौ प्रागुक्तौ भौमवैरिणौ । तावेव पश्चादुद्भूतौ मित्रे भौमस्य कीर्तितौ ।। ८९५ ।। चतुर्णामपि शब्दानां नाभसः शत्रुरिष्यते । एवं स्वराणामुद्दिष्टं मित्रामित्रबलाबलम् || ८९६ ॥ स्वस्यां दिशि फलं पूर्ण तदर्द्ध मित्रसद्मनि । शत्रुक्षेत्रे फलाभावो विपरीतमथापि वा ॥ ८९७ ॥ भौमादनन्तरश्चाप्यः सर्वसिद्धिप्रदो भवेत् । विपरीतक्रमेणैव फलनाशकरौ स्वरौ ॥ ८९८ ॥
प्रथमं पार्थिवो नाद स्तैजसस्तदनन्तरम् । वाञ्छितार्थौ स्यातां विपरीतौ ततोऽन्यथा ।। ८९९ ॥
आदौ चेत् पार्थिवो नादः पश्चान्मारुतजो यदि । लाभपूर्वा तदा हा निर्लाभो विपर्ययात् ॥ ९०० ॥
प्रथमो भूमिजो नादो द्वितीयो नाभसो यदि । सुखपूर्व भवेद् दुःखं दुःखात् सौख्यं विपर्ययात् ॥ ९०९ ॥
आप्यस्य पश्चादाग्नेयः फलं कृत्वा विनाशयेत् । व्यत्यासेन समुद्भूतौ व्यत्यस्तफलकारिणौ ॥ ९०२ ॥
Aho! Shrutgyanam
प्रथमो जलजः शब्दस्ततश्चेद् वायुसम्भवः । भयं वित्तविनाशाय वैपरीत्येऽपि तादृशौ ॥ ९०३ ॥

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176