Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute

View full book text
Previous | Next

Page 136
________________ १०६ मानसोल्लासः । [विंशतिः २ प्रशान्तदिङ्मुखो भूत्वा पोतकी नामभिः स्तुवन् । पाण्डपुत्रस्य मध्यस्य दश नामानि कीर्तयेत् ॥ ८५२ ॥ पाण्डवी पोतकी दुर्गा श्यामोमा चटकाभिधा। वाराही शकुनी कृष्णा श्वेतपक्षेति नामभिः ॥ ८५३ ॥ एतैरावाह्य विकिरदक्षतान् कुसुमैः समम् । ध्यायेच्च फाल्गुनं वीरं सर्वयोधधुरन्धरम् ॥ ८५४ ॥ किरीटी विजयः कृष्णो बीभत्सुः फाल्गुनोऽर्जुनः। सव्यसाची च पार्थश्च श्वेताश्वोऽय धनञ्जयः ॥ ८५५ ॥ " ॐ शिवे ज्वालामुखि बलिं गृहाण स्वाहा ॥ ॐ शिव शिवति भगवति चण्डे इदमयं मया लीलया समर्पितं गृहाण गृहाण ॥ आगच्छ वायुवेगेन शुभं कुरु कुरु स्वाहा ॥" __ अनेन मन्त्रेण त्रिपथे चतुष्पथे वो शिवाय बलिमयं दद्यात् । तोरणेषु नामान्येतानि कीर्तयेत् । सिद्धिदा जायते देवी पाण्डुपुत्रोपकारिणी ॥ ८५७ ॥ निःशब्दा होनशब्दा वा गच्छतो यदि दक्षिणम् । बजेत् कृष्णा तदा शस्ता शकुनज्ञस्य तोरणे ॥ ८५८ ॥ तोरणान्तनिवृत्तस्य पोतकी वामगा शुभा। अग्रे दक्षिणतः कृष्णा वामतः पुरुषः पुरः ॥ ८५९ ॥ एका ताराऽभयं विद्याद् द्वितीया कामदा भवेत् । तृतीया राज्यलाभाय व्रजन्ती दक्षिणां दिशम् ।। ८६० ॥ प्रथमं वामगा भूत्वा दक्षिणं यदि गच्छति । विनाश्य कुरुते कार्य पश्चात कृष्णा न संशयः ।। ८६१ ।। विपरीतक्रमे शेषा विपरीतफलप्रदा। न या नयक्रमाद् यान्ती मिश्रकार्याणि शंसति ॥ ८६२ ।। १ BC वा बलि । Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176