Book Title: Lilavati Sara
Author(s): Jinratnasuri, H C Bhayani, N M Kansara
Publisher: L D Indology Ahmedabad
________________
लीलावतीसारे
[३६९-३८२ क्ष्मापतिः सपरीवारो भक्त्याऽवन्दिष्ट तौ मुनी । निविश्यतामासनयोरित्युवाच च गौरवात् ॥३६९ गोचराग्रप्रविष्टेन नासितव्यं महर्षिणा । द्वित्रैर्वाक्यैर्धर्मकथाऽप्याधेयाऽत्र प्रबन्धतः ॥३७० राजंस्तवाथ सभ्यानामुपकारमवेत्य तु । स्थास्यावः क्षणमित्युक्त्वोपविष्टौ तौ महामुनी ॥३७१ भूपोब्रूताथ भगवन् पश्यामुं शुकमुत्तमम् । एतदीयोक्तिवैचिच्याद् भृशं चित्रीयिता वयम् ॥३७२ मुनिना ज्ञानिना प्रोचेऽयं सपूर्व इवास्ति नः । शुकोऽवग् नास्मि युष्माभिः दृष्टः कापीति वेदयहम् ॥३७३ किन्तु श्रुतं मया सन्ति क्वापि श्वेताम्बरर्षयः । कदाऽपि न पुनदृष्टाः सपूर्वोऽस्मि ततः कथम् ॥३७४ ज्ञान्युवाचासन्निहितमपि सन्निहितं यथा । ज्ञानेन ज्ञायते तस्माद् दृष्ट एवासि मूलतः ॥३७५ ततो विज्ञापयाञ्चके राजा कुसुमकेतुना । भगवन् शुकवृत्तान्तं ब्रूहि राजन् निशामय ॥३७६ पुरा हि पुरि कौशाम्ब्यां सुधर्मस्वामिसन्निधौ । रामदेवश्रीविजयसेनाद्या दश दीक्षिताः ।।३७७ भगवन्तस्ततः श्रीमच्चम्पापुर्या विजहिरे । तत्र श्रीविमलसेनो राजाऽवन्दिष्ट तान् गुरून् ॥३७८ साधून नमस्यता तेन ददृशे गुरुसन्निधौ । श्रीमान् विजयसेनर्षिर्दध्ये दुर्मनसा ततः ॥३७९ सैष मेऽरि येन पुरा परितोऽस्मि विबाधितः । तदमुं वैरिणं हस्तप्राप्तं हन्मि स्वपाणिना ॥३८० तच्चिन्तितप्रकटनाद् गुरुणा बोधितोऽथ सः । क्षमयामास विजयसेनर्षि श्रावकोऽप्यभूत् ॥३८१ अथान्तरान्तरा दध्यौ न सुष्टु विहितं मया । यत् तदा न हतः सोऽरिः पुनर्निन्दति दुष्कृतम् ॥३८२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514