SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ लीलावतीसारे [३६९-३८२ क्ष्मापतिः सपरीवारो भक्त्याऽवन्दिष्ट तौ मुनी । निविश्यतामासनयोरित्युवाच च गौरवात् ॥३६९ गोचराग्रप्रविष्टेन नासितव्यं महर्षिणा । द्वित्रैर्वाक्यैर्धर्मकथाऽप्याधेयाऽत्र प्रबन्धतः ॥३७० राजंस्तवाथ सभ्यानामुपकारमवेत्य तु । स्थास्यावः क्षणमित्युक्त्वोपविष्टौ तौ महामुनी ॥३७१ भूपोब्रूताथ भगवन् पश्यामुं शुकमुत्तमम् । एतदीयोक्तिवैचिच्याद् भृशं चित्रीयिता वयम् ॥३७२ मुनिना ज्ञानिना प्रोचेऽयं सपूर्व इवास्ति नः । शुकोऽवग् नास्मि युष्माभिः दृष्टः कापीति वेदयहम् ॥३७३ किन्तु श्रुतं मया सन्ति क्वापि श्वेताम्बरर्षयः । कदाऽपि न पुनदृष्टाः सपूर्वोऽस्मि ततः कथम् ॥३७४ ज्ञान्युवाचासन्निहितमपि सन्निहितं यथा । ज्ञानेन ज्ञायते तस्माद् दृष्ट एवासि मूलतः ॥३७५ ततो विज्ञापयाञ्चके राजा कुसुमकेतुना । भगवन् शुकवृत्तान्तं ब्रूहि राजन् निशामय ॥३७६ पुरा हि पुरि कौशाम्ब्यां सुधर्मस्वामिसन्निधौ । रामदेवश्रीविजयसेनाद्या दश दीक्षिताः ।।३७७ भगवन्तस्ततः श्रीमच्चम्पापुर्या विजहिरे । तत्र श्रीविमलसेनो राजाऽवन्दिष्ट तान् गुरून् ॥३७८ साधून नमस्यता तेन ददृशे गुरुसन्निधौ । श्रीमान् विजयसेनर्षिर्दध्ये दुर्मनसा ततः ॥३७९ सैष मेऽरि येन पुरा परितोऽस्मि विबाधितः । तदमुं वैरिणं हस्तप्राप्तं हन्मि स्वपाणिना ॥३८० तच्चिन्तितप्रकटनाद् गुरुणा बोधितोऽथ सः । क्षमयामास विजयसेनर्षि श्रावकोऽप्यभूत् ॥३८१ अथान्तरान्तरा दध्यौ न सुष्टु विहितं मया । यत् तदा न हतः सोऽरिः पुनर्निन्दति दुष्कृतम् ॥३८२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy