________________
३५६-३६८]
चतुर्दश उत्साहः राजा श्रीकुसुमकेतुमितामात्यपरिच्छदः । लेखग्रैवेयक कीरं नभस्यायान्तमैक्षत ॥३५६॥ युग्मम् क्षणात् निपत्य पुरतो वर्त्मश्रममपास्य च । चमत्कृताशेषसभ्यं कीरो नरगिराऽपठत् ॥३५७ नरेन्द्रमौलिमाणिक्यरोचिर्यावकितक्रम । पुत्रोदन्तवसन्तेन देव वर्धाप्यसेऽधुना ॥३५८ देव देवस्य देव्याश्च श्रीमान् कुसुमशेखरः । सुरसुन्दरीरमणमत्यौ चांही नमन्त्यमी ॥३५९ इति श्रुत्वाऽवदद्भपो मुदा विस्तार्य दोलते । स्वागतं ते स्वच्छ वत्सागच्छोत्सङ्गमलकुरु ॥३६० अथ तस्य महीभर्तुरनुज्ञाप्य शुकाग्रणीः ।। उत्सङ्गशृङ्गमारोहत् कुमारस्येव नन्दनः ॥३६१ व्यजिज्ञपच्च राजानं लेखं वाचापय प्रभो । प्रत्यक्षरं क्षरद्वाप्पं राट् स्वयं तमवाचयत् ॥३६२ लेखं कुमारागमनवर्धापकमवेत्य तौ । । राजा राज्ञी च किमपि प्रमोदाद्वैतमूहतुः ॥३६३ तेषां त्रयाणां वृत्तान्तं कीरः क्षीरकिरागिरा । यथाश्रुतं नृपस्याख्यदेकसंस्तुतिकः किल ॥३६४ चुम्बं चुम्बं शुकं मूनि न्यासं न्यासं स्ववक्षसि । भूपोऽतिहर्षवातूलः कथञ्चिदपि नातृपत् ॥३६५ नृपमत्युपरुध्याथ गृहीत्वा तं तथा व्यधात् । देव्याऽथामात्यसामन्ताः कौमारं भाग्यमद्भुतम् ॥३६६ द्राक्षादाडिमखर्जूरसहकारादिभिः फलैः । तं प्रीणयन्ती सा देवी तेष्वरोचकिनं व्यधात् ॥३६७ नृपसौधे क्षणेऽत्रागाद् विहर्तुं साधुयामलम् ।
राजा तत् प्रविशद् वीक्ष्यातहवत् स्वस्य सन्निधौ ॥३६८ ३६७.४. रोचकितं. Lila.-44
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org