SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ लीलावतीसारे केवलं मद्वियोगेन न पितरावतिताम्यतः । प्राप्तस्याप्रतिपथायां विलम्बो भविता च मे ॥३४५ इत्युक्त्वैव कुमारेण दृगहृदावुत्तरङ्गितौ ।। ततः शुकोऽवदत् पित्रोस्तवोदन्तं नयाम्यहम् ॥३४६ ततः कुमारः स्मेराक्षोऽवक् त्वमेव सुदर्शन । ईगदुःखानलासारः प्रत्यायद्यनुजानते(?) ॥३४७ तापसा व्याहरन् कीरं गच्छागच्छेः पुनतम् ।। राजसूरब्रवीत् पूज्या अन्वगृह्येतरामहम् ॥३४८ अथ प्रहृष्टवदनः पुनरूचे सुदर्शनः । कुमार मां प्रगुणय स विज्ञप्ति ततोऽलिखत् ॥३४९॥ यथा स्वस्ति श्रीभृगुपत्तने कुसुमकेतुश्रीमहाभूपते देवीस्वर्णलतायुतस्य विमलं श्रीपादपद्मद्वयम् । मूनाऽऽनम्य मुहुर्मुदाऽप्रतिपथापुर्याः करौ कुडमली- कृत्यासौ कुसुमादिशेखर इदं विज्ञापयत्यादरात् ॥३५० क्षेमश्रीर्मम रामदेवनृपतेः पुत्री मयोढा[ ऽपि च] संप्राप्ता सुरसुन्दरी द्रुतमुपेष्यामि प्रमोधं ततः । यच्चायं हि सुदर्शनः शुकवरो विज्ञापयत्येतद प्याकयं विशदप्रसादसदनैः श्रीतातपादैर्मयि ॥३५१ कण्ठावद्धदिव्यलेखः संदिष्टाशेषवाचिकः । सुदर्शनो दिवोत्पत्य क्षणेनाभूददर्शनः ॥३५२ सम्मान्य तापसान् प्रेषीत् स्वयं कान्ताद्वयीसखः । पुरीमैदप्रतिपथां रामदेवस्तमभ्यगात् ॥३५३ प्रवेशकमहो जज्ञे जज्ञे वर्धापनं महत् । एवं सुखेन तत्रास्था दिनान् कत्यपि राजसूः ॥३५४ इतश्च श्रीभृगुकच्छे प्रासादोपरिकुट्टिमे । श्रीकनकलतादेवीरुद्धार्धहरिविष्टरः . ॥३५५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy