SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ३३१-३४४] चतुर्दश उत्साहः आकाराद्यैः कुलपतिविज्ञायाथ ममाशयम् । तापसतापसीकीरानेतान् द्रुतमदोऽवदत् ॥३३१ भो भोः सम्भूय युष्माभिर्नेतन्या सुरसुन्दरी । प्रियमेलकतीर्थेऽस्या येन स्यात् प्रियमेलकः ॥३३२ ततः पत्रपुष्पमध्यकृतेवातीववत्सलैः । एतैरत्राहमानिन्ये सत्योऽभूत् प्रियमेलकः ॥३३३ ततो भोः श्रीसिंहराजकुमारस्तामवोचत । प्रियेऽनुभूतं प्रभूतं दुःखं दुष्कर्मनिर्मितम् ॥३३४ पप्रच्छ साऽपि प्राणेश मुधा किं क्लिश्यसेऽनघ । इति देवगिरः पश्चात् किं त्वयाऽप्यन्वभूयत ॥३३५ स च स्वोदन्तपीयूषं तमालप्राप्तिमुख्यकम् । तत्समागमपर्यन्तं न्यधात् तत्कर्णकूपयोः ॥३३६ ततो रमणमत्यंही नत्वोचे सुरसुन्दरी । त्वं मम स्वामिनी प्राणनाथप्राणप्रदानतः ॥३३७ साऽप्यभ्यधादथ सुरसुन्दरी प्रीतमानसा ।। त्वमेव मम सर्वत्र प्रष्टव्या ज्येष्ठभग्न्यसि ॥३३८ कुमारेणाथ रमणमत्यूचे सज्ज्यतां प्रिये । शीघ्र भगवतामेषां भोजनातिथ्यमादरात् ॥३३९ साऽऽख्यद् सिद्धमेव देवाची कुरुत द्रुतम् । अनुदेवार्चनं भक्त्या भोजितास्तापसादयः ॥३४० कीरः पुनः पूतभूतफलाद्यलमभोज्यत । पूगीफलादिसत्कारः सर्वेषामप्यतन्यत ॥३४१ तेन कान्तायुगलेन रतिप्रीतिश्रिणा सह ।। अथैकपात्रे बुभुजे कुमारः स्मरसोदरः ॥३४२ ततस्तेस्तापसोपान्ते निषेदुर्मेंदुरा मुदा । कुमारोऽवगभगवभिरन्वगृह्येऽस्मि सर्वथा ॥३४३ मन्ये युष्मदानुकूल्याविधिरप्यनुकूल्यभूत् । असम्भाव्यमिदं सर्व मम संजघटे यतः ॥३४४ ३३८.४. प्रष्ठव्या. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy