________________
३४२
Jain Education International
लीलावतीसारे
प्रियमेलक शैलश्चेत् सत्यमेव तदाऽस्म्यपि । स्वभ्रातृशशिमेलार्थं तत्र यामि मिलत्वसौ ॥३१७ अथ क्व यासीति पृष्टोऽनेनाहं धातुवादिना । मया यथार्थमाख्यायि ततोऽनेनास्म्यभाषिषि ॥ ३१८ त्वमप्येहि रसतृतीयांशं दास्ये तवाप्यहम् | मया दध्ये कोऽत्र दोषः शशिप्राप्तौ महागुणः ॥ ३१९ ततोऽस्त्वेवमिति प्रोक्ते त्रयोऽपि चलिता वयम् । गच्छद्भिर्महती रज्जु स्रागस्माभिरवल्यत ॥ ३२० ततः प्राप्ता इह गिरौ विवरद्वार्यनेन च । अस्मि प्रोक्तस्त्वमत्रैव रज्जुमादाय तिष्ठ भोः ॥३२१ द्वावप्यावां प्रवेक्ष्यावो विवरं बिभ्रतौ करे । षण्मासी घृतसंसिक्तमहिषी पुच्छदीपकम् ॥३२२ प्रविष्टौ तौ द्वारदेशे रज्जुहस्तस्त्वहं स्थितः । भ्रातरेकमहोरात्रं प्रातरद्यैष निर्गतः ॥३२३ गृहीत्वा तुम्बकद्वयम् ।
एकाक्येव रसपूर्ण महारज्ज्वनुसारेण ततो मामुक्तवानिति ॥ ३२४ वर्धाप्यसे चन्द्र मित्र सम्पूर्णास्ते मनोरथाः । तवोपभुञ्जतोऽपि श्रीनं निष्ठास्यति वार्धिवत् ॥ ३२५ तत् तुम्बकं गृहाणैकं गच्छावः स्वस्ववेश्मनि । तत ऊचे मया यस्ते द्वितीयोऽभूत् सखे क्व सः ॥३२६ अनेनोक्तं मया मित्र रसकूप्यां स चिक्षिपे । न विना बलि हि स्याद् रससिद्धिः कथञ्चन ॥ ३२७ विवराच्चलितौ चावां मिलितस्त्वं च बान्धव । इति भ्रातृगिराऽतुष्यं रसप्राप्त्या विशेषतः ॥ ३२८ आवाभ्यां धातुवादी स प्रणतोऽगात् स्वमास्पदम् । आवां प्राप्तरसौ तत्रागच्छाव भगवन्निति ॥ ३२९ शश्युक्तमवधार्यार्यपुत्र चेतस्यदोऽदधाम् । प्रियमेलक शैले स्याद्ध्रुवं मे
प्रियमेलकः ॥३३०
For Private & Personal Use Only
[ ३१७-३३०
www.jainelibrary.org