SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ३०३ - ३१६ ] चतुर्दश उत्साहः ततः प्रत्यक्षमेवैष दृश्यते गिरिशेखरः । इत्यादि संकथां कृत्वा तौ यथास्थानमीयतुः ॥ ३०३ मया दध्ये जिनयात्रा ममात्रैवाफलत्तराम् । यतोऽमुष्मादुपायान्मे भ्राता सङ्गम्यते ध्रुवम् ॥ ३०४ ततोऽस्मि सुप्तो बुद्धश्च जिनपूजापुरःसरम् । खेचरोक्तदिशा यावत् प्रस्थितस्तं गिरिं प्रति ॥ ३०५ तदैव दक्षिणं चक्षुस्त्रिः प्रपुस्फोर मामकम् । पूच्चक्रे वामतः श्यामा मृगोऽधावत् प्रदक्षिणम् ॥३०६ : अथोद्यद् हृदवष्टम्भश्चलितोऽस्मि द्रुतं द्रुतम् । यथाश्रुतविधानाच्च क्षेमेण प्राप तं गिरिम् ॥३०७ दिनानि कतिचित् तत्र स्थितोऽस्मि गिरिपूजकः । तनिकुञ्ज ययावस्मि पुष्पाण्युच्चेतुमन्यदा ॥३०८ विवरात् तत्र निर्यातौ तुम्बहस्तौ नरावुभौ । प्रत्यासत्तौ मया चन्द्रश्चन्द्रेणाऽस्म्युपलक्षितः ॥ ३०९ ततो मया सस्वजेऽसौ रुरोदैष पदो ( ? ) ऽपतत् । पृष्टोऽस्म्यनेन चन्द्रेणाख्यां स्ववार्तामशेषतः ॥ ३१० मया पृष्टेन चन्द्रेण स्वप्रवृत्तिरितीरिता । भ्रातस्तदा पोतभङ्गे फलकेनार्णवेऽपतम् ॥३११ अन्यान्योर्मिप्रेरितं च फलकं तटमासदत् । वेलावनानिलैः किञ्चित् प्रीणितोऽस्म्यत उत्थितः ॥ ३१२ त्वद्वियोगार्दितेनापि प्राणवृत्तिः फलैः कृता । प्रचेले च मया वेगात् स्वदेशाभिमुखं ततः ॥ ३१३ कियत्यपि गते मार्गे मिलितौ पुरुषावुभौ । एकः पुस्तकभृत् पृष्टो मया कोऽसि क्व यासि च ॥ ३१४ धातुवाद्यस्मि कल्पेन यास्यामि रसकूपिकाम् | लक्षवेधरसाप्तौ च प्राप्स्यामि स्वर्णमक्षयम् ॥ ३१५ पुनर्मयोचे क्व पुनर्मित्रास्ति रसकूपिका । तेनोक्तं प्रियमेलाद्रौ मया दध्येऽथ बान्धव ॥ ३१६ ३०६.३. स्पूच्चक्रे. Jain Education International For Private & Personal Use Only ३४६ www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy