SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ लीलावतीसारे [२८९-३०२ ततोऽपरापरोर्मीभिः प्रेरितं फलकं प्रभो । शशिनो मे प्राप तीरं प्रीणितोऽहं वनानिलैः ॥२८९ समुत्थाय फलैर्भुक्त्वा यानपात्रविपत्तितः । भ्रातृचन्द्रवियोगाच्च मया चिरमशुच्यत ॥२९० धर्यवीर्यमथालम्ब्य प्रस्थितः स्वपुरं प्रति । प्राप्तो महाटवीं नानातरुषण्डविमण्डिताम् ॥२९१ तत्र च शाबरीविद्यासाधनीयं मणीमयम् । खेचरैः कृतमद्राक्षं युगादिजिनमन्दिरम् ॥२९२ प्रविश्यात्र जगन्नाथ बिम्बमभ्यर्च्य सादरम् । तत्रैकान्ते दिनान्ते च स्वापस्थानमशिश्रियम् ॥२९३ अथार्कोऽस्तं स्ववन्मेऽगाद् विस्तृतं शोकवत्तमः । रजन्युपैदधृतिवत् त्रिदोष्या सन्न्यपत्यत ॥२९४ आत्मानं भ्रातरं स्वं च शोचन् यावत् शयेऽस्मि न । तावद् विद्याभृत्कुमारौ तत्रागातां जिनालये ॥२९५ देवाधिदेवं चाभ्यर्च्य वेदिकायां निषेदतुः । मिथश्च वस्तुसामर्थ्यकथामिति वितेनतुः ॥२९६ एकेनोचेऽस्य मन्त्रस्यास्या विद्यायास्तथाऽश्मनः ।। मूलस्य धातोर्देशस्य प्रभावोऽयमयं स्फुटम् ॥२९७ अन्येनोक्तं किं बहूक्तैः प्रभावो यादृशोऽधुना । प्रियमेलकशैलस्य तादृग् नान्यस्य कस्यचित् ॥२९८ आद्य आरव्यत् कः प्रभावो गिरेरस्य क्व चास्त्यसौ । अन्य ऊचे स कल्पचिन्तामणिविजित्वरः ॥२९९ यथार्थनामा किञ्चैष बहुभिर्बहुधेक्षितः । यत्र चायं गिरिवरस्तत् सम्प्रति निगद्यते ॥३०० इतोऽस्ति दशयोजन्यां पुण्या पुण्यवती नदी । तस्याः सहस्रपत्रादि लात्वाऽशोकतरोस्तले ॥३०१ मणीशिलां चारणातापनास्पदमार्य च । उत्तराभिमुखं मित्र गम्यते पञ्चयोजनीम् ॥३०२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy