SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ २७५-२८८] चतुर्दश उत्साहः नागवल्लया पूगनगं कोक्या कोकं च सङ्गतम् । पश्यन्त्यकुण्ठामुत्कण्ठामार्यपुत्रे व्यधामहम् ॥२७५ अनभ्रवृष्टिवदैवानुकूल्येन कुतोऽप्युपेत् । सुलक्षणा भगवती तत्रासौ सौमनस्यभाक ॥२७६ प्रत्यायातजीविताशा ततस्तद्दर्शनेऽभवम् । अभ्युत्थाय प्रहृष्टाऽस्मि विस्मितैतामवन्दिषि ॥२७७ ततोऽहमेतया पृष्टा कुतः पुत्रि समागमः । अथाऽस्मि दीर्घ निःश्वस्य सद्यः प्ररुदिता भृशम् ॥२७८ अर्थतया समाश्वास्य नीताऽहं तापसाश्रमम् । तत्रानमं कुलपति तत्पृष्टा सर्वमभ्यधाम् ॥२७९ तेनाऽनुशिष्टा संसारागारवरस्यदर्शनैः । तदादेशात् तापसीभिः फलाहारमकारिषि ॥२८० तापसैस्तापसीभिश्च सुदर्शनशुकेन च । बान्धवैरिव गौरव्यात्तत्रास्थां कतिचिद्दिनान् ॥२८१ अपरेधुर्गुरुपार्श्वेऽस्मासु सर्वेषु वर्तिषु ।। कुतोऽपि द्वौ नरावेत्यावन्देतां तमृषीश्वरम् ॥२८२ आसीनौ गुरुणा पृष्टौ तौ स्वोदन्तमवोचताम् । आस्ते जयस्थलं नाम नगरं नगरजितम् ॥२८३ वणिक्कलाधिपस्तत्र प्रिया तस्य नलिन्यहो ।। तत्पुत्रौ शशिचन्द्राख्यावावामाबाल्यसौहृदौ ॥२८४ यौवनेऽनेकभाण्डौघैः प्रपूर्यावां वहित्रकम् । वा मनीषितभुवं प्राप्तौ लाभो महानभूत् ॥२८५ गृहीत्वा प्रतिभाण्डानि प्रत्यावृत्तौ गृहं प्रति ।। महासमुद्रे दुर्वातदुर्दिनाद्या उदैयरुः ॥२८६ प्रकृतेषूपक्रमेषु बहुष्वपि वहिबकम् । आवयोर्हृदयमिव सहसा शतधाऽस्फुटत् ॥२८७ स्फुटमाने तत्र पोते गृहीत्वा फलकं बलात् । आवाभ्यां मुमुचे स्वात्मा सिन्धौ निर्वेदतः किल ॥२८८ २७९.१. समास्वास्य. २८३.१. पृष्ठौ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy