________________
लीलावतीसारे
न दत्ते ते स्वर्णमसौ मातर्यदि कथञ्चन । कुर्वीथा मां तदा दासीं विक्रीणीथा धनेन वा ॥२६१ इत्युक्त्वाऽहं तया सार्धं प्रास्थिषि स्वपुरं प्रति । यावद्दृष्टः सार्थ एकस्तयाऽस्मि जगदे ततः ॥२६२ सार्थेनैव समं यामो मयोक्तमेवमस्त्विति । सार्धं सार्थेन तेनावां दिनानि कतिचिद्गते ॥ २६३ अथ सा चरिका पापा सार्थवाहं रहोऽभ्यधात् । गृहाणतां मम सुतां देहि स्वर्णसहस्रकम् ॥ २६४ एवमस्त्विति सार्थेशः प्रत्यपद्यत तद्वचः । तच्च नाथ मया ज्ञातं ध्यातं च मम कर्म धिक् ॥ २६५ अत्रान्तरे महासार्थः स विवेश महाटवीम् । ताभ्यां भीता त्वहं सार्थान्निश्यनश्यमलक्षिता ॥२६६ भ्राम्यन्त्यरण्ये भ्राम्यद्भिर्हष्टाऽहं धादिवाहकैः । तद्दर्शनादस्मि भीता तैः समाश्वासिता पुनः ॥ २६७ पृष्टा च सौम्ये काऽसि त्वं मयोचेऽस्मि वणिग्वधूः । महासार्थेन मद्भर्ता सह गच्छन् किलाऽभवत् ॥ २६८ सार्थश्च लुण्टतश्चरैर्नष्टाऽस्मि पतिताटवौ ।
यूयं तु प्रस्थिताः क्व स्थ तैरुक्तं भृगुपत्तने ॥२६९ मयोचे यदि मां तत्र नयध्वं नयशालिनः । तत्र प्राप्ता तदा स्वर्णशतं वो दापयाम्यहम् ॥२७० शीघ्रमेवं हि तैरूचे तैः सह प्रस्थिताऽस्म्यथ । तन्मध्यादेकेन यूना प्रार्थिताऽहं पुनः पुनः ॥ २७१ दध्ये मया न सार्थेऽयं शीलक्षेमङ्करो मम । ततो निश्येषु सुप्तेषु दिश्येकस्यामचालिषम् ॥ २७२ वर्जयिनि मध्याह्ने काञ्चन प्रापमापगाम् । प्रक्षाल्य तत्र वदनं नाथ कृच्छ्रादपामपः ॥ २७३ तस्यास्तीरे तमालाघो विश्राम्यन्ती व्यलोकयम् । शून्यशून्या दिशः सर्वा यमस्यापि भयङ्कराः ॥ २७४ २६७.३. तर्द्दर्शना; २६७.४. समास्वासिता.
Jain Education International
[ २६१-२७४
For Private & Personal Use Only
www.jainelibrary.org