________________
२४८–२६० ]
चतुर्दश उत्साहः
सोऽप्याह स्वप्राणनाथान्यन्मनसाऽपीतरः पुमान् । न मष्टस्ततः शक्तिरियमाविरभून्मम ॥ २४८ दृष्टान्तस्यास्योपनयः स्वयं देव प्रबुध्यताम् । इत्थं कुमारामात्येन प्रोक्तेऽस्थात् सोऽवहित्थया ॥ २४९ ततः प्रियदर्शनाया एतेनास्मि समर्पिता । एवं व्यतीयुरहानि हायनानीव कत्यपि ॥ २५०
Jain Education International
अश्रौषमन्यदा तत्रार्यपुत्रः क्वापि नाप्यत । न ज्ञायते क्व चास्तीति क्षारमापं क्षते ततः ॥२५१ तत्रान्यदाऽश्ववणिजाऽस्याश्वरत्नमढौक्यत
I
तदारुह्य स बाह्यालीमियाय सपरिच्छदः ॥२५२ धाराभिः पञ्चभिस्तत्र वाहयित्वाऽथ तं हयम् । चर्मयष्ट्याssहत्य वेगान्मुमुचे स नृपाङ्गजः ।। २५३ वेगावेगादधावत् प्रागथ दिव्युत्पपात सः । ततो हर्षविषादाभ्यां पूच्चक्रे तत्परिच्छदः ॥२५४ नभोवाहन राजोऽथ हयसेनया । सद्योsधाविष्ट पृष्ठतः ॥ २५५
तज्ज्ञात्वा
सुरन्धरकुमारस्य तदा सिंहपुरात् कान्त सर्वतोऽप्याकुलाकुलात् । मृगीवद् बन्धनात् सद्यः शीलं त्रातुं पलायिषि ॥ २५६
प्राप्तोद्याने न जाने तु तातपत्तनपद्धतिम् । दृष्टाऽथ छिन्ननासौष्ठा तत्रैका चरिका मया ॥ २५७
उक्ता च सा जयपुरे मामम्ब नयसे यदि । तदाऽवश्यं सुवर्णस्य शतं तुभ्यं ददाम्यहम् ॥२५८ स्वर्णमादाय हन्म्येनामत्रैवेति विचिन्त्य सा । चरिकाऽऽख्यत् क्व ते स्वर्णं ततः कान्त मयौच्यत ॥ २५९ पुरे तत्र मम तातो वामदेवो वणिग्वरः । स दास्यते सुवर्ण ते दृष्ट्वा मां क्षेमशालिनीम् ॥२६० २५७.३. "नाशो".
Lila.-43
For Private & Personal Use Only
www.jainelibrary.org