SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ लीलावतीसारे ऊचे मया भुक्तभोगा परस्त्री परिणीयते ।। . इतिस्थितिस्त्वत्कुले वा लोके वा किमु विद्यते ॥२३५ कषायितोऽथ सोऽब्रूत शाधीमां प्रियदर्शने । साऽवक् सेयं मनुष्येषु शिक्षा दृषदि नो पुनः ॥२३६ ग्रामीणनटमूर्खाणां यद्वा योगः खलूचितः । अस्थानाभिनिवेशी त्वं नूनमेषाऽपि तादृशी ॥२३७ एवं तया भग्नमुखः सजोषं जुजुषे क्षणम् । पुनरज्ञानाभिमानात् सोऽवदन्मां गतत्रपः ॥२३८ मदुक्तेऽङ्गीकृते सुभ्र तव श्रेयोऽन्यथा न हि । किमितोऽप्यधिकं मूढविधिः कर्तेत्यिवादिषम् ॥२३९ विधिना विहितं किं ते द्रक्ष्यस्येतर्हि मत्कृतम् । अथो कुमारं कुमारामात्योऽब्रत प्रभो शृणु ॥२४० कादम्बया महाटव्यां तापसोऽभून्महातपाः । स चातापन्निश्चलाङ्गस्तस्थौ स्थाणुभ्रमप्रदः ॥२४१ बलाकाऽत्रामुचविष्ठामेतस्यै कुप्यति स्म सः । गाढं मुमोच हुक्कारं ततः सा भस्म्यभूत् क्षणात् ॥२४२ तेन ज्ञातं तपःशक्तिर्विस्फुर्जति ममेदृशी ।। यः करिष्यत्यभक्ति मे तं करिष्यामि भस्मसात् ॥२४३ स चान्यदा वराणस्यां भिक्षायां क्वाप्यगाद् गृहे । गृहिणी तत्र च पति भोजयत्यञ्जसाऽऽदरात् ॥२४४ तत्र भुक्ते चिरान्निन्ये भिक्षा तस्मै तपस्विने । स च क्रुद्धस्तदुपरि महाहुकारमातनोत् ॥२४५ साऽप्यूचे नाह बलाका भिक्षामादत्स्व चेत् क्षुधा ।। निपत्य तत्पदोः सोऽवक् कुतो वेत्सि बलाहिकाम् ॥२४६ जगाद सा यतस्त्वां भोः करिष्ये भस्मसात् क्षणात् । सोऽवगभीतो भगवति शक्तिस्ते कुत ईदृशी ॥२४७ २३५.३. 'स्त्वत्कुले. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy