________________
१२२२-२३४]
चतुर्दश उत्साहः आतिथ्यं चोचितं यद्वस्तदाख्याहि शुकोऽभ्यधात् । आधत्से यत् तदिष्टं नस्तेनोचेऽनुग्रहो महान् ॥२२२ किञ्च पृच्छया स्ववृत्तान्तमेषा तत्क्षणमास्यताम् । अयि प्रिये स्ववृत्तान्तं यथास्थितमुदाहर ॥२२३ पदे पदे वहद्बाष्पाऽथाचख्ये सुरसुन्दरी । यदा ते स सुरोऽवादीत् किं मुधा क्लिश्यसेऽनघ ॥२२४ तत ऊर्ध्वनिमेषेण स मां सिंहपुरेऽमुचत् । प्रियदर्शनापार्श्वस्थसुरन्धरमुखाग्रतः
॥२२५ तेन चोक्तं समानीता मित्रेयं सुरसुन्दरी । प्रतिपाद्येति तरसा स जगाम सुरालयम् ॥२२६ ततो भग्नीति सानन्दं सपत्नीति समत्सरम् । .. समुत्थायासनं दत्वा मामाख्यत् प्रियदर्शना ॥२२७ कुतः कथमिहायाता हे भग्नि सुरसुन्दरि । विधिनिष्कारणं क्रुद्धो जानातीति मयोच्यत ॥२२८ अथापाङ्गदृशा वीक्ष्य मामुवाच स भूपसूः । प्रिये देवेन नानीता किन्तु देवेन मत्कृते ॥२२९ तदानन्दपदे कोऽयं विषादस्तव सुस्मिते । स्वामिन्यास्तव दासोऽस्मि त्वदधीना ममासवः ॥२३० तद्विषादविषं मुञ्च सिञ्च मां करुणामृतैः । महादेवीपदे त्वां चाभिषिञ्चामि सुलोचने ॥२३१ ततो मयाऽऽर्यपुत्रोचे महाभाग सुरन्धर । सन्तोऽन्यदारेक्षणेऽपि सचेलं स्नान्ति शुद्धये ॥२३२ त्वं तु महाकुलीनोऽपि कथमेवं विभाषसे । स ऊचे त्वां पिता मेऽदान्नान्यदारास्ततोऽसि मे ॥२३३ मयाऽऽचख्ये यदि पित्रा दत्ता नोढा कथं त्वया ।
स मूढोऽबताधुनैवोद्वहामि ननु सुन्दरि ॥२३४ २२४.४. कि. २३३.१. माहा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org