SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ लीलावतीसारे [२०९-२२१ वरमाहुतिपर्यन्ते कुण्डिकादण्डधारिभिः । स्कन्धनृत्यज्जटैरने नृता (?) मुनिकुमारकैः ॥२०९ परितः प्रावृताङ्गीर्घनभूर्जतरुत्वचा । .. नितम्बचुम्बज्जटाभिस्ताफ्सीभिश्च पृष्ठतः ॥२१० अरुणास्यांहिणा नीलपक्षेण व्योमगामिना । शोणनीलाश्मात्मनेव शुकेन च समन्विता ॥२११ तन्मन्त्राकृष्टदेवीव सद्यः सा सुरसुन्दरी । कुतोऽप्येत्य , कुमारस्य पादयोयंपतद्बत ॥२१२॥ चतुभिः कलापकम् प्राणेशविरहासौख्यमुष्णास्त्रैः किल मुञ्चती । सा तत्पदस्थिताऽरोदीद्रोदःकुक्षिभरिस्वरम् ॥२१३ आदाय बाहुलतयोः कुमारः प्राणवल्लभाम् । स्ववामोरुगद्विकायां सरोमाञ्चं न्यवेशयत् ॥२१४ अथो रमणमत्याम्बुपूर्णेनैष स्वपाणिना । रक्तोत्पलपुटाभेन तस्याः प्राक्षालयन् मुखम् ॥२१५ स्वोत्तरीयपल्लवेन शिरीषमृदुनाऽऽदरात् ।। स्वर्णादर्शमिवामार्जीद् रामचन्द्री तदाननम् ॥२१६ प्रदत्ते च तया दिव्ये प्राणेश्वरनियोगतः । आसनेऽत्यन्तमासन्ने न्यषदत् सुरसुन्दरी ॥२१७ ते तापसाद्याः कुमारप्रणता ईरिताशिषः । आसनेषु प्रधानेषु निषेदुः खेदिताः पथा ॥२१८ अस्मिन्नवसरे राजकुमारोपान्तमेत्य सः । राजकीरः क्षीरपाणं श्रुत्योस्तन्वन् जगाविति ॥२१९ कुमार सद्गुणागार भुवनाधार सादरम् । प्रियेयं ते समानिन्येऽधुना यामस्तपोवनम् ॥२२० सोऽप्यवादीत् पराणिन्ये यैरेषा मम वल्लभा । ते गौरव्यास्तदातिथ्यमाधेयं स्थीयतां ततः ॥२२१ २१०.२. 'भूर्य'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy