SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ १९६-२०८] चतुर्दश उत्साहः प्रागदुविहितदुष्कर्मताण्डवं सर्वमप्यदः । रामः पुनः प्राह कस्त्वं कुतः कथमिहागमः ॥१९६ कुमारेणाथ साद्यन्तः स्वोदन्तः प्रत्यपाद्यत । यावत् सुप्तस्तमालाधो जाने नातः परं पुनः ॥१.९७ रामोऽवदन्महाभाग प्रतीपेनापि वेधसा । त्वदर्शनसुतोद्वाहाभ्यामतिप्रीणिता वयम् ॥१९८ अये कुमार संसारपारावारोऽयमीदृशः । । न विषादो विधातव्यस्तदत्र मतिशालिना ॥१९९ सुरसुन्दरीवियोगदुःखशल्योदिधीर्षया । पत्युः पतिव्रताऽब्रूत पित्रे रमणमत्यथ ॥२०० तात श्रुतं मयाऽऽप्तेभ्यः संयुक्तानां सुरद्रुमः । चिन्तामणिवियुक्तानां शैलोऽस्ति प्रियमेलकः ॥२०१ नानानदीवनखण्डमेखलापरिमिण्डतः । अस्यामेव महाटव्यामितो योजनपञ्चके ॥२०२ ततो यस्तत्र गत्वा 'ॐ नमो भुयणभूसणस्स सव्वन्नुणो इह मीलय मीलय स्वाहा । मन्त्रस्यास्य सदासन्नपत्नीको ब्रह्मचर्यभूत् । प्रागमासं करजापेन मासं पुष्पजपेन च ॥२०३ मासं च मधुहोमेन सपि)मेन मासकम् । उपचारं करोत्यस्य तुर्ये मासीष्टमेलकः ॥२०४॥ युग्मम् व्याजहार कुमारोऽथ तेन कान्तापहारिणा । षण्मास्यन्ते प्रियामेलो ममादिष्टः किलाभवत् ॥२०५. मासद्वयमतिक्रान्तमेतावद्भिश्च वासरैः । । नयामश्चतुरो मासान् प्रेयस्युक्तविधानतः ॥२०६ ज्ञाताशयोऽवदद्रामः . कुमार त्वमिदं कुरु । ... सहैव रमणमत्या चम्वा च चतुरङ्गया ॥२०७ ततस्तदैव कुसुमशेखरः प्रियमेलकम् । जगाम करजापादिविधि प्रारब्धवान् मुदा ॥२०८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy