SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ सार लीलावतीसारे इतश्चास्यामरण्यान्यामस्त्यप्रतिपथापुरी तस्यां राजा रामचन्द्रो रामदेवी च तत्प्रिया ॥१८३ तयोः पुत्री रमणमती रूपधेयश्रियो निधिः । सा च तारुण्यपूर्णाऽभूत् पुरुषद्वेषिणी परम् ॥१८४ राज्ञाऽन्यदा श्रुतं पुच्यामनूढायां ध्रुवं पितुः । तावन्तो नरकाः प्रोक्ता यावन्तो रक्तबिन्दवः ॥१८५ ततः खिन्नेन भूपेनाप्रच्छि नैमित्तिकोऽन्यदा । पुत्री मे रमणमती वरं कञ्चिद् वरिष्यति ॥१८६ स जगाद महापुंसः प्रेयसीयं भविष्यति । स चाहिदष्टोऽत्राटव्यामस्ति प्रगुणयाशु तम् ॥१८७ तदैव रामचन्द्रेण नरा प्रेष्यन्न सर्वतः । ददृशे तैः स कुमारो मृतकल्पोऽहिदंशतः ॥१८८ उत्पाट्य निन्ये स पुयीं हूता गारुडिकास्ततः । सम्मान्य दर्शितस्तेषां राजा स नृपनन्दनः ॥१८९ सम्यगविभाव्य तैरूचे वामाङ्गे स्त्री परे पुमान् । दष्टो न जीवत्ययं तु वामाने तेन जीवति ॥१९० नासाधरचिबुकेषु वरांहितलमेढ्योः । न जीवत्यहिना दष्टोऽयं चान्योति जीवति ॥१९१ छिन्नेऽनावयवे यस्य न निर्यात्यस्रबिन्दुकः । परासुं तं विजानीयान्निर्यात्यस्येति जीवति ॥१९२ ततश्च चच्चरीगानपूर्व तैरुपचक्रमे । क्रमेणोत्थाय सोऽनर्तीद्राज्ञश्च प्रमदो हृदि ॥१९३ वर्धापनकमातेने श्रीरमणमती वृता ।। परिणीता च कुसुमशेखरेण · महोत्सवैः ॥१९४ अथान्यदा रामचन्द्रः कुमारं पृष्टवानिति । धीमन् क एष वृत्तान्तः कुमारः प्रत्यवोचत ॥१९५ १८५.२. यावंदतो. १९१.१. नाशा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy