________________
१६९-१८२ ]
विदधे
१७४.३. किं कु.
Jain Education International
चतुर्दश उत्साहः
नः संशयोदयः ।
मन्त्र्यवादीद्देवमेतन्नात्र यत् कुमारो राजलक्ष्मी मर्जतीत्यतुषन्नृपः ॥ १६९ सम्मान्य मन्त्रिणा नैमित्तिक उत्थापितो द्रुतम् । अन्यद्राजा प्रश्नितोऽसौ नैव ज्ञास्यत्यशिक्षितः ॥ १७० एवं कुमारागमनमनोरथरथस्थिताः ।
दिनान्निर्गमयामासुः सुखेन क्षितिपादयः ॥ १७१ इतश्च धीरा भवेति मुहुर्जल्पन् स राजसूः । प्राप्तोऽटव्यां सुरेणोचे किं मुधा क्लिश्यसेऽनघ ॥ १७२ तव सत्त्वपरीक्षार्थमगां मन्दमियच्चिरम् । अथातिवेगाद्यास्यामि नागन्तव्यमतस्त्वया ॥१७३ अन्यच्च नाहं स्वकृतेऽपहरामि तव प्रिया । किं तु प्राग्जन्मसुहृदो निमित्तं हृद्यसौहृदात् ॥१७४ किञ्चानया दयितया न मेलस्तेऽधुनैव हि । षण्मासानन्तरं ह्येषा सती सङ्गम्यते त्वया ॥ १७५ इत्युक्त्वा स तिरोभूतः कुमारस्तु हृतप्रियः । दूराध्वपादचारातोऽस्थात् तमालत रोस्तले ॥ १७६ सर्वतः प्रेक्षते यावत् तावद्यमपुरीमिव । निर्मानुषतया भीमां पश्यत्येष महाटवीम् ॥ १७७ प्रियाहृत्याऽफलायासात् पित्रदर्शनतश्च सः । दूनोऽपि व्यषदन्नैव भवस्वाभाव्यभावनात् ॥ १७८ दध्यौ चाकारणक्रुद्धोऽतिशेते दुर्जनं विधिः । सर्व विघटयत्येष यन्निमेषार्धमात्रतः ॥१७९ मम साहसमेकत्रान्यतो विधिविधानकम् । कार्यारम्भतुलाभेऽद्य द्रक्ष्यते यद् विजित्वरम् ॥१८० इति ध्यात्वोत्तरीयं चास्तीर्य सुष्वाप भुव्यसौ । यावत् तावत् कुतोऽप्येत्य दन्दशूको ददंश तम् ॥ १८१ तदीयविषमविषलहरीभिरसौ क्षणात् । विधेः ॥ १८२
सर्वदेशीयः प्रातिकूल्यमहो
१७८.१. "यासीत्.
For Private & Personal Use Only
३३१
www.jainelibrary.org