________________
लीलावतीसारे
[१५५-१६८
तन्न यावत् तत्प्रवृत्तिस्तप्तशूची श्रुती मम । बाधते तावदेवाग्नि श्रये तदुःखजित्वरम् ॥१५५ अथ राजाऽवददेवि कुमाराधीनजीवितः । किमिहाहमवस्थास्ये सार्थ एकस्तदावयोः ॥१५६ अथ मन्त्री सुरगुरुर्विज्ञो व्यज्ञापयन्नृपम् । पृच्छयन्तां देव देवज्ञाः कुमारागमनोत्सवम् ॥१५७ कुमारोदन्तं वदते लक्षदीनारदापनम् । उद्घोप्यतामानकेन मान्यन्तां कुलदेवताः ॥१५८ चतुर्दिशं च प्रेष्यन्तां कुमारान्वेषका नराः । अकस्मात् प्राणप्रहाणं कुमारालोकहृत् परम् ॥१५९ ततो राजाऽवदन्मन्त्रिन् कारयैतद् द्रुतं द्रुतम् । मन्त्र्यूचे सिद्धमेवेदमवधारयतु प्रभुः ॥१६० अथ नानाकथामुख्यविनोदैः कोविदोचितैः । प्रभुं विनोदयामासुः सामन्ताद्या निरन्तरम् ॥१६१ शिक्षयित्वाऽन्यदा सर्व मन्त्रिणा ज्ञापितः पुमान् । नैमित्तिकोऽयं तद्देव पृच्छयतां तनयागमम् ॥१६२ ततः सम्मान्य राज्ञोचे प्रियंवद वद प्रियम् । कुमारोदन्तमस्माकमकस्मात् जीवितामृतम् ॥१६३ स मायया समादाय प्रश्नवर्णावलीमिमाम् । तत्काललग्नग्रहांश्च तथा वीक्ष्य स्वरोदयम् ॥१६४ राजानमवददेवानुभूतेऽर्थे ममोदितम् । चेत् संवदति तत् सत्यं मदुक्तं नान्यथा पुनः ॥१६५॥ युग्मम् मन्त्रिशिक्षाविद्ययाऽथाब्रत देव त्वया प्रगे । मन्त्रिणः पुर इत्युक्ते मन्त्रिणा चेदमौच्यत ॥१६६ किमेतदस्त्यथ वा न मन्यूचे न तवोपरि । राज्ञोऽप्रतीतिस्तद् ब्रूहि कुमारस्यागमः कदा ॥१६७ प्रणिधाय निमित्त्यूचे षण्मास्या देव निश्चितम् । प्राप्य राज्यश्रियं क्षेमान् श्रीकुमारः समेष्यति ॥१६८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org