SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ३४७ ३३३-३९६] चतुर्दश उत्साहः प्रान्ते चासौ मासिकानशनाद् भवनपत्यभूत् । ततो नृतिर्यङ्नरकभवेषु बहुशोऽभ्रमत् ॥३८३ पुनर्नृषु श्रावकोऽभूद्विराध्य श्रावकव्रतान् । बभूव चमरेन्द्रस्येन्द्रसामानिकनिर्जरः ॥३८४ .. प्रान्ते चार्तध्यानतोऽसौ तिर्यगायुर्निबन्धनः । अत्रैव भरतक्षेत्रे प्रियमेलामहाटवौ ॥३८५ शाल्मलीशालिनो नीडे किलापीडे शुकोऽभवत् । पितृभ्यां पोष्यमाणश्च किञ्चित्संजातपक्ष्यभूत् ॥३८६॥ युग्मम् अन्यदा पुडितशरा शवरा यमकिङ्कराः । तत्राययुः पितृभ्यां सोऽवाचि मा चुकृथा इति ॥३८७ तेष्वासन्नेष्वतिभयाच्चुञ्चकार शुकार्भकः । तस्य स्वरानुसारेण मुमुचुः शवराः शरान् ॥३८८ मृत्युभीत्या शुकार्भस्य पितरो जग्मतुः क्वचित् । शुकास्त्वप्रौढपक्षोऽपतद्भुवि भयातुरः ॥३८९ निन्ये लिल्ये तरुगहने न दृष्टस्तैः सपाप्मभिः । क्षुत्तपातः कथमपि तमालगहनं ययौ ॥३९० इतश्च दैवयोगेन तत्रागात् तापसेश्वरः । तेनाश्वास्य गृहीतोऽसौ पायितश्च सरः पयः ॥३९१ भोजयित्वा दाडिमादि फलान्यतिकलानि सः । विनेय इव वात्सल्यादानिन्ये तापसाश्रमम् ॥३९२ तं दृष्ट्वा तापसा ऊचुरहो कीरः सुदर्शनः । ततः कुलपतिनाऽसौ चक्रे नाम्ना सुदर्शनः ॥३९३ गुरूक्त्या मुनिकुमारैः पालितोऽध्यापितस्तथा । . . यथा व्यासवदाख्याता व्याख्याता च बभूव सः ॥३९४ अथ तत्राश्रमेऽभ्यागाद् वधूर्वः सुरसुन्दरी । ..... तया सहैत् प्रियमेले कुमारोक्त्या विहायमैत् ॥३९५ प्रत्यक्षोदन्तसंवादात् परोक्षेऽनुमितिस्थितेः । प्रत्ययः साधु साधूक्तेऽथ जज्ञे तस्य पक्षिणः ॥३९६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy