Book Title: Lilavati Sara
Author(s): Jinratnasuri, H C Bhayani, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 456
________________ २५-३६] एकोनविंशतितम उत्साहः चतुःशरणिकामिमां दृढतमां चतुष्पोतिकाम् निरुद्धनिखिलास्रवासितपटाञ्चितां संश्रितः । व्यतीतभववारिधिः परमवित्तिशृङ्गारितः ... सुरन्धरमुनिः शिवास्पदरसां समाशिश्रियत् ॥२५ अथ प्रान्त्याराधनाया ज्ञात्वाऽवसरमात्मवित् । प्रागुक्तयुक्तया सम्मेतगिरौ शुद्धशिलातले ॥२६ प्राङ्मुखः पद्मासनस्थो मुनिः कुसुमशेखरः । पर्यन्ताराधनामेवं मधुरध्वनिनाऽपठत् ॥२७ नमो देवाधिदेवाय भुवनत्रयबन्धवे । निस्तीर्णविस्तीर्णतमापारसंसारसिन्धवे ॥२८ जगस्त्रियदीपाय निष्प्रतीपाय तायिने । अरिष्टनेमये नित्यं नित्यनिर्वृतिदायिने ॥२९ प्राणातिपातमखिलं मृषावादमदत्तकम् । मिथुनं परिग्रहं च सर्वतो रात्रिभोजनम् ॥३० गुरोः पुरः प्रतिख्यातं वरमप्यधुना पुनः । प्रत्याख्यामि प्रभोरने प्रसद्य प्रेक्षतां प्रभुः ॥३१ युग्मम् अशनं पानकं खाद्य स्वादिमं सर्वमेव हि । यावज्जीवं विविधेनापथ्यदं व्युत्सृजाम्यहम् ॥३२ यदपीदं वपुः पूर्व शीतादेर्यन्न रक्षितम् । सर्वथा तदपीदानी व्युत्सृजाम्यस्मि पांशुवत् ॥३३ तथाऽनादौ भवे नानाविमानभवनादिषु । यन्ममत्वं मया चक्रे तत् त्यजामि कुमित्रवत् ॥३४ यच्च किञ्चिन्भे ममत्वं मानवीष्वमरीषु च । तिरश्चीषु च तत् सर्वे व्युत्सृजामि पलालवत् ॥३५ यन्मे ममत्वं पुत्रेषु पवित्रेषु गुणश्रिया ।। तदिदानी व्युत्सृजामि स्वजामिप्रभृतिष्वपि ॥३६ ३२.४. पथ्यद. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514