________________
२५-३६]
एकोनविंशतितम उत्साहः चतुःशरणिकामिमां दृढतमां चतुष्पोतिकाम्
निरुद्धनिखिलास्रवासितपटाञ्चितां संश्रितः । व्यतीतभववारिधिः परमवित्तिशृङ्गारितः
... सुरन्धरमुनिः शिवास्पदरसां समाशिश्रियत् ॥२५ अथ प्रान्त्याराधनाया ज्ञात्वाऽवसरमात्मवित् । प्रागुक्तयुक्तया सम्मेतगिरौ शुद्धशिलातले ॥२६ प्राङ्मुखः पद्मासनस्थो मुनिः कुसुमशेखरः । पर्यन्ताराधनामेवं मधुरध्वनिनाऽपठत् ॥२७ नमो देवाधिदेवाय भुवनत्रयबन्धवे । निस्तीर्णविस्तीर्णतमापारसंसारसिन्धवे ॥२८ जगस्त्रियदीपाय निष्प्रतीपाय तायिने । अरिष्टनेमये नित्यं नित्यनिर्वृतिदायिने ॥२९ प्राणातिपातमखिलं मृषावादमदत्तकम् । मिथुनं परिग्रहं च सर्वतो रात्रिभोजनम् ॥३० गुरोः पुरः प्रतिख्यातं वरमप्यधुना पुनः । प्रत्याख्यामि प्रभोरने प्रसद्य प्रेक्षतां प्रभुः ॥३१ युग्मम् अशनं पानकं खाद्य स्वादिमं सर्वमेव हि । यावज्जीवं विविधेनापथ्यदं व्युत्सृजाम्यहम् ॥३२ यदपीदं वपुः पूर्व शीतादेर्यन्न रक्षितम् । सर्वथा तदपीदानी व्युत्सृजाम्यस्मि पांशुवत् ॥३३ तथाऽनादौ भवे नानाविमानभवनादिषु । यन्ममत्वं मया चक्रे तत् त्यजामि कुमित्रवत् ॥३४ यच्च किञ्चिन्भे ममत्वं मानवीष्वमरीषु च । तिरश्चीषु च तत् सर्वे व्युत्सृजामि पलालवत् ॥३५ यन्मे ममत्वं पुत्रेषु पवित्रेषु गुणश्रिया ।।
तदिदानी व्युत्सृजामि स्वजामिप्रभृतिष्वपि ॥३६ ३२.४. पथ्यद.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org