________________
३८८
[३७-४०
लीलावतीसारे यन्ममत्वं परीवारे प्रियमित्रेषु बन्धुषु । सर्वकालीनमधुना धुनामि पदधूलिवत् ॥३७ चतुरङ्गेषु सैन्येषु भाण्डागारे पुरे जने । मया ममत्वं यच्चक्रे तच्चके थूत्कृतं यथा ॥३८ स इत्याराधनामुक्त्वा निषण्णस्तृणसंस्तरे । आरुक्षत् क्षपकश्रेणी निःश्रेणी शिवसद्मनि ॥३९ अमुं कुसुमशेखरं शुभसमाधिसूरप्रभा
पहस्तिततमोरिपुं सपदि केवल श्रीः स्वयम् । स्वयंवर वरस्रजा वरयति स्म तद्भाजिनं
तमाशु शिवसुन्दरी सममुपायत प्रेमतः ॥४०
इति श्रीनिर्वाणलीलावतीसारे जिनाके सुरन्धर कुसुमशेखरमहामुनि-निर्वाण-व्यावर्णनो नाम एकोनविंशतितम उत्साहः॥*
* ग्र. ४४.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org