________________
विंश उत्साहः
अथ श्रीकुलमृगाकः शशाङ्क इव पार्वणः । ज्ञात्वाऽस्तकालं सम्मेतास्तगिरिं समशिश्रियत् ॥१ शिलापट्टे दृढपद्मासनस्थायी पुरोमुखः । मौलिस्थकरमुकुलो वक्तुमेवं प्रचक्रमे ॥२ अरिष्टनेमे भगवन् भुवनैकविभूषण । आदिकर्तर् लोकनाथ लोकोत्तम तमोपह ॥३ तुभ्यमभ्यन्तरोल्लासिभक्तितोऽस्तु नमो नमः । शृणु प्रसद्य भगवन् ब्रुवे किञ्चिन् मनोगतम् ॥४॥ युग्मम् तवैव पुरतो नाथाधुना निन्दामि दुष्कृतम् । आस्रवान् सकलानेव पिदधामि च सर्वतः ॥५ प्राणप्रहाणं रे जीव त्वया प्राप्तं मुहुर्मुहुः । तत्परिचितस्य प्राप्तौ क्षोभितब्यं त्वया न हि ॥६ नरके मागितमपि न त्वयेदं पराप्यत । सम्प्रत्यमागिते तत्र लब्धे हर्षो विधीयताम् ॥७ गर्भस्थोऽथ जायमानो बालोऽथ तरुणो जरन् । मुहुर्मृतोऽसि तत् सम्प्रत्यति मैव वृथा कृथाः ॥८ चक्रेश्वरश्रीधराया ये चात्रापरपौरुषाः । शाश्वतास्तेऽपि नाऽभूवंस्तत् किं त्वमिह खिद्यसे ॥९ ये वज्रकाया देवेन्द्रप्रातिहार्यसपर्यिताः । तेऽप्यर्हन्तः स्थिरा नात्र तत् काऽतिस्ते व्ययागमे ॥१० इन्द्राहमिन्द्राः सर्वेऽपि च्यवन्ते स्वायुषः क्षये । तदात्मन्नात्मनात्मानं धर्यवर्मितमातनु ॥११ तथा राघ्नुहि पर्यन्तः समयं सम्यगात्मनः ।। पण्डितमृत्युना मृत्युञ्जयः स्या अभवोऽपि यत् ॥१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org