________________
३९०
लीलावतीसारे
[१३-२४ इत्थं कुलमृगाङ्कस्याराधनां पठतोऽपि हि ।। आरूढस्य समाधिद्रोः क्षपकश्रेणिवीरुधम् ॥१३ केवलज्ञानस्तबकसौरभं जिघ्रतः क्षणात् ।। महोदयफलं हस्तकुशेशयमुपागमत् ॥१४ युग्मम् प्रभो जगदिदं गिलत्यलमनित्यताराक्षसी
तदेतदनुपद्रुते नय पदे क्वचिन्मामिति । सुविज्ञपनतोऽमुना सुमुनिना ध्रुवं नेमिना
प्रहित्य परमां विदं ध्रुवपदेऽयमावास्यत ॥१५ एवं कियत्स्वप्यहस्सु सुषेणोऽपि महामुनिः । पर्यालोच्यायुः पर्यन्तं सम्मेताद्रौ शिलातले ॥१६ तृणसंस्तारमास्तीर्योत्तमाङ्गकरकुड्मलः । पर्यन्ताराधनामुच्चारयामास मृदुध्वनिः ॥१७॥ युग्मम् श्रीयादवकुलाम्भोधिशरत्पर्वसुधांशवे आजन्मसीममथितदुर्वारविषमेषवे
॥१८ कर्पूरपूरसुरभिकीर्तिव्याप्ताब्धिनेमये नमस्याय त्रिजगतामों नमोऽरिष्टनेमये ॥१९॥ युग्मम् तत्पुरः प्राणातिपातं मृषावादमदत्तकम् । अब्रह्मपरिग्रहं च संपरायचतुष्टयम् ॥२० बन्धने कलहाभ्याख्यानके माया मृषा तथा ।। पैशुन्यान्यपरिवादमिथ्यात्वारतिरत्यथ ॥२१ इत्यष्टादशपापानां स्थानकान्यखिलान्यपि ।। मोहराट्स्थानकानीव नाशयामि समन्ततः ॥२२ चतुर्विधं तथाऽऽहारं प्रत्याख्यामि त्रिधा त्रिधा ।। सर्वाभीष्टमपि वपुस्त्यजामि तृणखण्डत् ॥२३ किञ्च - एकद्वित्रिचतुष्पञ्चेन्द्रिया जीवा भवाटवौ । अत्राणा अशरणाश्च निहन्यन्ते परस्परम् ॥२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org