________________
२५-३०]
विंश उत्साहः
तथा
पिता माता सुता माता बन्धुमित्रनृपादयः । शरणं न भवन्त्यत्र स्वयं ह्यशरणा अभी ॥२५ तदसारेऽत्र संसारे सर्वज्ञोपज्ञ आगमः । क्षान्त्यादिर्दशधा धर्मः शरणं नापरः पुनः ॥२६ तच्च जीवाधुना लब्धं सुदुर्लम्भमपि त्वया ।। ततः पर्यवसानेऽपि का चिन्ता तव साम्प्रतम् ॥२७ इत्येवं भावयन्नेव श्रीसुषेणमहामुनिः । शुक्लध्यानरत्नसानुमारुरोहातिरंहसा ॥२८ अर्धाऽधिरूढे तत्रैष परापत् केवलश्रियम् । सर्वाधिरूढे त्वद्वैतमुदं कैवल्यसम्पदम् ॥२९ संसारचारकगृहेऽशरणस्तमोन्धो
दुःखातुरोऽस्मि तदधीश्वर मामवेति । एतद्रेिव विमलावृजिनप्रबोघ
धाम्ना स्वपार्श्वमनयत् प्रभुनेमिरेतम् ॥३०
इति श्रीनिर्वाणलीलावतीसारे जिनाङ्के श्रीकुलमृगाङ्क-श्रीसुषेण-महामुनि
निर्वाण-व्यावर्णनो नाम विश उत्साहः ।।*
२६.२. मागमः * ग्र. ३३.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org