SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ एकविंशतितम उत्साहः श्रीसिंहसूरिनृपतिः परतीथिकाज्ञामुत्थापयन् प्रतिपदं द्रढयन् जिनाज्ञाम् । ग्रामाकरादिषु विहृत्यतरां परेयुः श्रीराजिराजगृहकाननमाजगाम ॥१ सद्यः प्रियंवद इति प्रथिताभिघान उद्यानपालकवरश्च तदागमेन । श्रीपद्मकेसरनृपं सहपुत्रपौत्रगोत्रं स्म वर्धयति तस्य परिच्छदं च ॥२ राजा प्रमोदभरनिर्भरहन्निशान्तः स्वणींशुकादिनिकरप्रतिपादनेन । उद्यानपालकग, सहपुत्रपौत्रगोत्रं स्म वर्धयति तस्य परिच्छदं च ॥३ सामन्तमन्त्रिवरपौरजनानुयातः सान्तः पुरश्ध चतुरङ्गचमूवृतश्च । श्रीसिंहसूरिगुरुराजनमस्यनाय श्रीपद्मकेसरधराधिपतिश्चचाल ॥४ हे शेषकूर्मपतिदिगद्विरदा इदानीं सर्वोजसा क्षितितलं सकलं प्रधत्त । श्रीपद्मकेसरनृशेखर एष सर्वऋद्धया प्रयाति गुरुराजसभाजनाय ॥५ गत्वोद्यानमसौ विहाय नृपतेश्चिह्नानि सूरीक्षणे । __ मूर्धन्यस्तसुहस्तकुड़मलमिषात् संगीर्णतच्छासनः । तत् तावत् परिवारयुक् क्षितिपतिज्योतिष्पतिः श्रीगुरुं मेरुक्षोणिधरं प्रदक्षिणयति स्मानन्दरोमाञ्चितः ॥६ पञ्चाङ्गसंस्पृष्टमहीतलश्च तत्पादपद्मं सं नमश्चकार ।। तत्र स्थिरस्थायुकपुण्यलक्ष्म्या भालस्थले संक्रमणाय मन्ये ॥७ यथास्थानासीने नृपतितिलके तत्र भगवान् सुधाधाराधाराधर इव सुगम्भीरनिनदः । क्षणाद् बाह्याबाह्यप्रबलतरसन्तापशमनी सुधर्मव्याख्यानामृतरसमहावृष्टिमतनोम् ॥८ तथा हिकुले जन्म क्षीरार्णवनवनवोल्लोलविमले सुलक्ष्मीरक्षीणा स्वपरजनतानन्दवसति । सुपात्रे श्रीदानं प्रशमपरिपाकः परिणतौ परीपाकान् पुण्यश्रिय उदयते श्रीभरतवत् ॥९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy