________________
एकविंशतितम उत्साहः
यथामहाविदेहे किल पुण्डरी किणी पुर्यामभूत् तीर्थपतिः श्रियो निधिः । श्रीवज्रसेनसिजगत्पतिस्फुरत्कोटीरकोटीमणिचुम्बितक्रमः ॥१० पुत्रास्तदीया धुरि वज्रनाभो बाहुः सुबाहुश्च ततश्च पीठः ।। ततो महापीठ इति क्रमेण क्रमेण जजुश्च धुरन्धरास्ते ॥११ श्रीवज्रनाभं विनिवेश्य राज्ये प्रदाय सांवत्सरिकं च दानम् । प्रभुर्दिदीक्षाक्षतमोहशत्रुर्जयश्रिय स्वाप च केवलद्धिम् ॥१२ अभ्याययावायुधशालिकायां श्रीवज्रनाभस्य च चक्ररत्नम् । षट्खण्डमस्माद्विजय प्रसाध्य स्वीकृत्य चक्रिश्रियमत्यभुङ्क्त ॥१३ अथाऽन्यदा तत्र पुरे व्यहार्षीत् श्रीधर्मचक्री प्रभुवज्रसेनः । श्रीवज्रनाभप्रमुखाश्च सर्वे पितुः सभीपाज्जगृहुव्रतद्धि[ म् ] ॥१४ श्रीद्वादशाङ्गी प्रथमोऽध्यगीष्टार्जीविंशतिस्थानकतोऽर्हदृद्धि । एकादशाङ्गीमपरे तु पेटुः सर्वे तपस्यां विविधां वितेनुः ॥१५ वैयावृत्त्यधनेन बाहुसुमुनिश्चक्रीन्दिरामार्जयत्
सद्विश्रामणया सुबाहुयतिरप्यूर्जस्वलं दोर्बलम् । सर्वार्थे सुखशेवधौ ‘ययुरमी तत्र त्रयस्त्रिशतं
स्थित्वाऽब्धीन् भरते युगादिजिनराट् श्रीवज्रनाभोऽभवत् ॥१६ बाहुः श्रीभरतेश्वरोऽजनि सुबाहुर्बाहुबल्याख्यया
पीठो ब्राह्मयजनिष्ट सोऽपि च महापीठोऽभवत् सुन्दरी । स्वे राज्ये वृषभेश्वरेण भरतः संस्थापितः स्वाम्युपैत्
दीक्षां केवलमासदच्च भरतश्चक्रेश्वरोऽजायत ॥१७ श्रीनाभेयजिनश्वरे शिवगते श्रीभारताधीश्वरो
राज्यं प्राज्यमभुक्त तीर्थमतनोत् तत् तागष्टापदे । वात्सल्यामृतकुल्ययाऽपि च परोलक्षांश्च साधर्मिकान्
संप्रीणन् गृहमेधितामपि वहत्तैस्तीर्थभूयं भुवि ॥१८ १५.१. 'द्वादशांगी. १७.१. बाहु. Lila.-50
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org