SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ लीलावतीसारे [१९-२४ स चाऽन्येद्यः स्नातः प्रतिपदधतालकृतिभरः किलादर्शागारे स्ववपुरभिपश्तन्नित इतः ।। विशोभा निर्वाभरणरहितामजलिमसौ समन्तादप्यागन्तुकसुषममेवाङ्गमबुधत् ॥१९ ततस्तद्दृष्टान्तादखिलमपि संसारमभितोऽ प्यसारं मन्वानः शुभतमपरीणामवशतः । दलित्वा घातीनि प्रबलतमकर्माणि सहसा गृहस्थोऽप्याश्लिष्यद् बत बततमां केवलरमाम् ॥२० शण्वन्नेव हि पद्मकेसरनृपस्तत्सर्वमत्यद्भुतं वैराग्याद्भुतभङ्गिमङ्गयकृत तामात्मैकवेद्यां ततः । ऊच्चैर्वीर्यविलासतः पवनतः कर्माम्बुदाली क्षता सद्यः कैवलिकः प्रकाश उदगात् तस्यावनीभास्वतः ॥२१ अत्रैवावसरे प्रमोदविकसन्नेत्रारविन्दो हरिः सर्वा सपरिच्छदोऽथ सहसाऽयासीदनायास्यहो । क्ष्वेडानादजयारवैः किल तदा देवा जगर्जुर्घना गन्धाम्भो ववृषुः सुमानि च ततः सद्यः पुपुष्पे च भूः ॥२२ आगू रत्नविमानमालितमहीपीठाश्चतुर्धाऽमराः शक्रेणौच्यत पद्मकेसरनृपो धत्स्वर्षिवेषं प्रभौ । कृत्वा लोचमधत्त वेषमृषिराट् शक्रादिभिर्वन्दित श्चके कैवलिकोत्सवश्च जगतीकौतूहलैकाकरः ॥२३ इन्द्रो व्यज्ञपयद् गुरून् प्रणमतामु केवलोभास्वरं सूरिः साधु फलेग्रहिर्मम जहायासौऽधुनाऽभूदिति । आनन्दैकमयः प्रदक्षिणयितुं तं यावदेवोत्थित स्तावच्छुक्लसमाधिनाऽनवधिना तस्याप्युदैत् केवलम् ॥२४ १९.२. 'र्शामारे. २३.४. केवलिकोत्सवश्च. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy