________________
लीलावतीसारे
[१२-२४ नारकामरतिर्यङ्नॅसमुदायेऽत्र निश्चितम् । अर्हन्त उत्तमा एते भूधरेषु सुमेरुवत् ॥१२ व्यवहार्यास्तदन्येभ्यः सूक्ष्मकेभ्यस्तु बादराः । पर्याप्तास्त्वपर्याप्तेभ्यो निगोदेभ्यः परीत्तकाः ॥१३ नारकेभ्यश्च तिर्यञ्चस्तेभ्यो मस्तितः सुराः । देवेभ्यो देवाधिदेवा अर्हन्तो ध्रुवमुत्तमाः ॥१४॥ युग्मम् येषां गर्भ जनने च व्रते केवलमोक्षयोः । त्रैलोक्यं क्षुभ्यति यथा प्रमोदभ[ र ]मेदुरम् ॥१५ तथा हरिहरादीनां कस्याप्यन्यतरस्य न । अर्हन्तो भगवन्तोऽमी ततोऽपि जगदुत्तमाः ॥१६ त्रैलोक्यमुनि कोटीराः शाश्वताः शर्मभाजनम् । कृतकृत्या भगवन्तः सिद्धास्तद्भुवनोत्तमाः ॥१७ सुरासुरनराः सर्वे स्मरवीरस्य किक्कराः । तज्जेतारः साधवोऽमी भवन्ति जगदुत्तमा ॥१८ सर्वज्ञभाषितो मामर्त्यपूज्यश्च शाश्वतः । त्रिकोटीदोषमुक्तश्च धर्मों लोकोत्तमः स्फुटम् ॥१९ दुर्वारदुःखसम्भारागारसंसारचारतः । यर्मोच्यते जगत् सर्वं तेऽर्हतः शरणं मम ॥२० येषां नामोत्कीर्तनेन भक्त्तिरागान्नमस्कृतेः ।। सिद्धास्पदं प्राप्यते ते सिद्धाश्च शरणं मम ॥२१ सहाया असहायानां ये धर्मे शिववर्त्मनि । रत्नत्रयीभूषितास्ते साधवः शरणं मम ॥२२ यज्जगद्बान्धवैदिष्टं सर्वज्ञैः सर्वदर्शिभिः ।। नित्यारोग्याय तत् कुर्वे शरणं धर्मभैषजम् ॥२३ सर्वान् जीवान् क्षमयामि तेषु क्षाम्यामि सर्वतः ।
ददे मिथ्यादुष्कृतं च त्यजामि मलवद् वपुः ॥२४ १५.४. प्रमोदभमेदुरां.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org