________________
एकोनविंशतितम उत्साहः
तथा सुरन्धरमुनिख़त्वा पर्यन्तमायुषः ।। नमस्कृत्य चैत्यसाधून् क्षमयित्वाऽखिलं गणम् ॥१ वितीर्णालोचनः क्लप्तानशनो गीतसाधुयुक् । सम्मेते पद्मासनस्थः सुविशालशिलातले ॥२ पूर्वपुरुषदिक्प्राप्त्यै . पूर्वाशाभिमुखः किल । मूर्धन्यस्तहस्तकोशोऽपाठीदाराधनामिति ॥३॥ त्रिभिविशेषकम् नमो मिथ्यात्वतिमिरविध्वंसकविवस्वते । क्रोधोषर्बुधमेघाय मानाम्भोदनभस्वते ॥४ मायावल्लीपरशवे लोभाम्भोधिघटोद्भवे । अरिष्ठनेमिने भक्त्या द्वाविंशाय जिनेशिने ॥५ अपि च - सुरासुरनरस्वामिकृतामर्हन्ति येऽर्हणाम् । भूर्भुवःस्वस्त्रयीशानास्तेऽर्हन्तो मङ्गलं मम ॥६ त्रैलोक्यजयिनो रागद्वेषमोहमहारयः । यहतास्तेऽरिहन्तारो भवन्तु मम मङ्गलम् ॥७ ध्यानाग्निना भवबीजमिथ्यात्वादिप्रदाहतः । ये न रोहन्ति संसारे तेऽरोहन्तश्च मङ्गलम् ॥८ क्षीणाष्टकरियो ये भुञ्जते शिवसम्पदम् । कृतकृत्या भगवन्तः सिद्धास्ते मम मङ्गलम् ॥९ मतिश्रुतावधिमनःपर्यवकेवलाब्धयः प्रत्येकबुद्धादयश्च साधवो मम मङ्गलम् ॥१० क्षान्त्यादिर्दशधा धर्मः शुद्धः सर्वज्ञभाषितः ।। भवाम्बुधौ निरपायः पोतश्च मम मङ्गलम् ॥११
Lila.-49
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org