Book Title: Lilavati Sara
Author(s): Jinratnasuri, H C Bhayani, N M Kansara
Publisher: L D Indology Ahmedabad
________________
एकविंशतितम उत्साहः
श्रीसिंहसूरिनृपतिः परतीथिकाज्ञामुत्थापयन् प्रतिपदं द्रढयन् जिनाज्ञाम् । ग्रामाकरादिषु विहृत्यतरां परेयुः श्रीराजिराजगृहकाननमाजगाम ॥१ सद्यः प्रियंवद इति प्रथिताभिघान उद्यानपालकवरश्च तदागमेन । श्रीपद्मकेसरनृपं सहपुत्रपौत्रगोत्रं स्म वर्धयति तस्य परिच्छदं च ॥२ राजा प्रमोदभरनिर्भरहन्निशान्तः स्वणींशुकादिनिकरप्रतिपादनेन । उद्यानपालकग, सहपुत्रपौत्रगोत्रं स्म वर्धयति तस्य परिच्छदं च ॥३ सामन्तमन्त्रिवरपौरजनानुयातः सान्तः पुरश्ध चतुरङ्गचमूवृतश्च । श्रीसिंहसूरिगुरुराजनमस्यनाय श्रीपद्मकेसरधराधिपतिश्चचाल ॥४ हे शेषकूर्मपतिदिगद्विरदा इदानीं सर्वोजसा क्षितितलं सकलं प्रधत्त । श्रीपद्मकेसरनृशेखर एष सर्वऋद्धया प्रयाति गुरुराजसभाजनाय ॥५
गत्वोद्यानमसौ विहाय नृपतेश्चिह्नानि सूरीक्षणे ।
__ मूर्धन्यस्तसुहस्तकुड़मलमिषात् संगीर्णतच्छासनः । तत् तावत् परिवारयुक् क्षितिपतिज्योतिष्पतिः श्रीगुरुं
मेरुक्षोणिधरं प्रदक्षिणयति स्मानन्दरोमाञ्चितः ॥६ पञ्चाङ्गसंस्पृष्टमहीतलश्च तत्पादपद्मं सं नमश्चकार ।। तत्र स्थिरस्थायुकपुण्यलक्ष्म्या भालस्थले संक्रमणाय मन्ये ॥७ यथास्थानासीने नृपतितिलके तत्र भगवान्
सुधाधाराधाराधर इव सुगम्भीरनिनदः । क्षणाद् बाह्याबाह्यप्रबलतरसन्तापशमनी
सुधर्मव्याख्यानामृतरसमहावृष्टिमतनोम् ॥८ तथा हिकुले जन्म क्षीरार्णवनवनवोल्लोलविमले
सुलक्ष्मीरक्षीणा स्वपरजनतानन्दवसति । सुपात्रे श्रीदानं प्रशमपरिपाकः परिणतौ
परीपाकान् पुण्यश्रिय उदयते श्रीभरतवत् ॥९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514