Book Title: Lalit Vistara Part 01
Author(s): Pravinchandra K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 272
________________ લોગહિઆણં ૨૫૧ पंeिs: ननु इदमपि कथं निश्चितं यदुत- अनागमं पापहेतोरप्यवश्यं पापभाव इत्याशङ्क्याह - इतरेतरापेक्षः= परस्पराश्रितः, कर्तृकर्मप्रकार:=कारकभेदलक्षणः, कर्ता कर्मापेक्ष्य व्यापारवान् कर्म च कर्तारमिति भावः, यथा प्रकाश्यं घटादिकमपेक्ष्य प्रकाशकः प्रदीपादिः, तस्मिंश्च प्रकाशके सति प्रकाश्यमिति, तथा विपर्यस्तबोधादिपापहेतुमान् पापकर्ता पुमानवश्यं तथाविधकार्यरूपपापभाव एव स्यात्, पापभावोऽपि तस्मिन् पापकर्तरीत्यतः स्थितमेतद् यदुत- प्रकारान्तरचेष्टनस्यानिष्टत्वसिद्धिः, हितयोगविपरीतत्वात्, विषयं प्रत्यहितयोगत्वं चेति। नन्वेवं कथमचेतनेष्वहितयोगः, तत्साध्यस्य क्रियाफलस्यापायस्य तेषु कदाचिदप्यभावात्, यदि परमुपचरितः, तस्य चोपचरितत्वे हितयोगोऽपि तेषु तादृश एव प्रसजति, न च स्तवे तादृशस्य प्रयोगः, सद्भूतार्थविषयत्वात् स्तवस्य, ततः कथं सर्वलोकहिता भगवन्त इत्याशङ्क्याह-. न=नैव, 'अचेतनाहितयोगः' अचेतनेषु धर्मास्तिकायादिषु अहितयोगः-अपायहेतुर्व्यापारो मिथ्यादर्शनादिः, उपचरितः-अध्यारोपितोऽग्निर्माणवक' इत्यादाविवाग्नित्वम्, अत्र हेतुमाह- 'पुनरागमकर्मकत्वेन', पुनरागमेन= प्रत्यावृत्त्य, कर्त्तयैव क्रियाफलभूतापायभाजनीकरणेन कर्म यस्य स पुनरागमकर्मको अचेतनाहितयोगः, तस्य भावस्तत्त्वं, तेन, उपचरितोऽहितभावो न मुख्यभावकार्यकारी माणवकाग्निवत्, अचेतनाहितयोगस्तु प्रत्यावृत्त्य स्वकर्तर्येव क्रियाफलमपायमुपरचयन्, परवधाय दुःशिक्षितस्य शस्त्रव्यापार इव तमेव जन्, कथमुपचरितः स्यात् । एवं तर्हि सचेतनेष्वप्यहितयोगः पुनरागमकर्मक एव प्राप्त इति परवचनावकाशमाशङ्क्याह सचेतनस्यापि जीवास्तिकायस्य इत्यर्थः, 'अहितयोग' इति गम्यते, अचेतनस्य त्वस्त्येवेति 'अपि'शब्दार्थः, एवंविधस्यैव अचेतनसमस्यैव क्रियाफलभूतेनापायेन रहितस्यैव इत्यर्थः, न=नैव, अयं-प्रकृतोऽचेतनाहितयोगः, इति-एतस्य पूर्वोक्तस्यार्थस्य, दर्शनार्थः-ख्यापक इति भावः, अहितयोगात् सचेतने कस्मिंश्चित् क्रियाफलस्यापायस्यापि भावात्। ननु यद्यचेतनेषु क्रियाफलमपायो न समस्ति, कथं तदालम्बनप्रवृत्ताहितयोगाक्षिप्तं तेषां कर्मत्वमित्याह कर्तृव्यापारापेक्षमेव मिथ्यादर्शनादिक्रियाकृतमेव, तत्र-अचेतनेषु, कर्मत्वम् अवधारणफलमाह- न पुनः स्वविकारापेक्षं न स्वगतापायापेक्षम्। ननु कथमित्थं कर्मभाव इत्याशङ्क्याह- कङ्कटुकपक्तावित्थमपि दर्शनादिति- ककटुकानां-पाकानर्हाणां मुद्गादीनां, पक्तौ पचने, इत्थमपि स्वविकाराभावेऽपि, दर्शनात्-कर्मत्वस्य 'कङ्कटुकान् पचती'ति प्रयोगप्रामाण्यादिति, एवं चाचेतनेषु हितयोगोऽपि मुख्य एव कर्तृव्यापारापेक्षयेति न तत्कारणिकत्वेन स्तवविरोध इति।।१२।।

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306