________________
લોગહિઆણં
૨૫૧
पंeिs:
ननु इदमपि कथं निश्चितं यदुत- अनागमं पापहेतोरप्यवश्यं पापभाव इत्याशङ्क्याह - इतरेतरापेक्षः= परस्पराश्रितः, कर्तृकर्मप्रकार:=कारकभेदलक्षणः, कर्ता कर्मापेक्ष्य व्यापारवान् कर्म च कर्तारमिति भावः, यथा प्रकाश्यं घटादिकमपेक्ष्य प्रकाशकः प्रदीपादिः, तस्मिंश्च प्रकाशके सति प्रकाश्यमिति, तथा विपर्यस्तबोधादिपापहेतुमान् पापकर्ता पुमानवश्यं तथाविधकार्यरूपपापभाव एव स्यात्, पापभावोऽपि तस्मिन् पापकर्तरीत्यतः स्थितमेतद् यदुत- प्रकारान्तरचेष्टनस्यानिष्टत्वसिद्धिः, हितयोगविपरीतत्वात्, विषयं प्रत्यहितयोगत्वं चेति।
नन्वेवं कथमचेतनेष्वहितयोगः, तत्साध्यस्य क्रियाफलस्यापायस्य तेषु कदाचिदप्यभावात्, यदि परमुपचरितः, तस्य चोपचरितत्वे हितयोगोऽपि तेषु तादृश एव प्रसजति, न च स्तवे तादृशस्य प्रयोगः, सद्भूतार्थविषयत्वात् स्तवस्य, ततः कथं सर्वलोकहिता भगवन्त इत्याशङ्क्याह-.
न=नैव, 'अचेतनाहितयोगः' अचेतनेषु धर्मास्तिकायादिषु अहितयोगः-अपायहेतुर्व्यापारो मिथ्यादर्शनादिः, उपचरितः-अध्यारोपितोऽग्निर्माणवक' इत्यादाविवाग्नित्वम्, अत्र हेतुमाह- 'पुनरागमकर्मकत्वेन', पुनरागमेन= प्रत्यावृत्त्य, कर्त्तयैव क्रियाफलभूतापायभाजनीकरणेन कर्म यस्य स पुनरागमकर्मको अचेतनाहितयोगः, तस्य भावस्तत्त्वं, तेन, उपचरितोऽहितभावो न मुख्यभावकार्यकारी माणवकाग्निवत्, अचेतनाहितयोगस्तु प्रत्यावृत्त्य स्वकर्तर्येव क्रियाफलमपायमुपरचयन्, परवधाय दुःशिक्षितस्य शस्त्रव्यापार इव तमेव जन्, कथमुपचरितः स्यात् । एवं तर्हि सचेतनेष्वप्यहितयोगः पुनरागमकर्मक एव प्राप्त इति परवचनावकाशमाशङ्क्याह
सचेतनस्यापि जीवास्तिकायस्य इत्यर्थः, 'अहितयोग' इति गम्यते, अचेतनस्य त्वस्त्येवेति 'अपि'शब्दार्थः, एवंविधस्यैव अचेतनसमस्यैव क्रियाफलभूतेनापायेन रहितस्यैव इत्यर्थः, न=नैव, अयं-प्रकृतोऽचेतनाहितयोगः, इति-एतस्य पूर्वोक्तस्यार्थस्य, दर्शनार्थः-ख्यापक इति भावः, अहितयोगात् सचेतने कस्मिंश्चित् क्रियाफलस्यापायस्यापि भावात्।
ननु यद्यचेतनेषु क्रियाफलमपायो न समस्ति, कथं तदालम्बनप्रवृत्ताहितयोगाक्षिप्तं तेषां कर्मत्वमित्याह
कर्तृव्यापारापेक्षमेव मिथ्यादर्शनादिक्रियाकृतमेव, तत्र-अचेतनेषु, कर्मत्वम् अवधारणफलमाह- न पुनः स्वविकारापेक्षं न स्वगतापायापेक्षम्। ननु कथमित्थं कर्मभाव इत्याशङ्क्याह- कङ्कटुकपक्तावित्थमपि दर्शनादिति- ककटुकानां-पाकानर्हाणां मुद्गादीनां, पक्तौ पचने, इत्थमपि स्वविकाराभावेऽपि, दर्शनात्-कर्मत्वस्य 'कङ्कटुकान् पचती'ति प्रयोगप्रामाण्यादिति, एवं चाचेतनेषु हितयोगोऽपि मुख्य एव कर्तृव्यापारापेक्षयेति न तत्कारणिकत्वेन स्तवविरोध इति।।१२।।