Book Title: Jambudweeplaghusangrahani
Author(s): Haribhadrasuri, Nandighoshvijay, Udaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 30
________________ सटीक जंबूद्वीप सङ्ग्रहणी ? 9 जगद्गुरुमित्यनेन वागतिशयश्च ४ । नन्वमीषां इत्थं क्रमेणोपन्यासः किं सप्रयोजन उत निः प्रयोजन इति चेत् सप्रयोजन एव, इत्थं क्रमेणामीषां लाभसूचकत्वात् । तथाहि रागद्वेषादिमोहनीयक्षयात् प्रथ॒मापायापगमातिशयात्राप्त अन्तर्मुहूर्तेन ज्ञानावरणीयादिक्षयात् केवलज्ञानलक्ष्मीमवाप्नोति अत एव ज्ञानातिशयद्वितीयत्वं केवलज्ञानसम्प्राप्तौ चतुर्निकायजा देवा: सम-, वसरणादिरूपां पूजां प्रतन्वन्ति, अतस्तस्य तृतीयत्वं समवसरणे कृते सति जगदेकबन्धुर्भगवान् योजनगामिनीं सर्वसत्त्वेषु तत्तद्भाषापरिणामिनीं देशनां गदतीति अत एव च वचनातिशयस्य तुर्यत्वम् । तथा चोक्तः सिद्धराजराजसदसि आशावसनजयात्राप्तख्यातिना वादिदेवसूरिणा स्वोपज्ञस्याद्वादरत्नाकर नाम प्रमाणनयतत्वालोकटीकायां एतेषां चातिशयानामित्यमुपन्यासे तथोत्पत्तिरेव निमित्तं तथाहि " नाविजितरागद्वेषो विश्ववस्तुज्ञाता भवति न चाविश्ववस्तुज्ञः शक्रपूज्यः सम्पद्यते; न च शक्रपूजाविरहे भगवांस्तथा गिरः प्रयुक्त इती " त्यादिनाऽयमेवार्थो निषेधमुखेनेति । महावीरंति महांश्चासी इतरापेक्षया वीरश्च महावीरस्तं - - 'शूरवीर विक्रान्तौ ' वीरयति स्म कषायोपसर्गपरीषहेन्द्रियादि शत्रु प्रति विक्रामति स्मेति वीरः, अथवा 'ईर गतिप्रेरणयोः' विशेषेण इरयति गमयति, स्फेटयति कर्म, प्रापयति वा शिवं, प्रेरयति वा शिवाभिमुखं इति वीर, अथवा 'ईरि गतौ ' विशेषेणापुनर्भावेनेर्ते स्म याति स्म शिवमिति वा वीरः, सर्वेषां गत्यर्थानां ज्ञानार्थत्वात् विशिष्ट ईरो ज्ञानं यस्य स वीरः, अथवा विशिष्टा केवलज्ञानात्मिका ईलक्ष्मीस्तां राति भव्येभ्यो हितोपदेशदानादिना प्रयच्छतीति वीरो वा । तथा चोक्तं 66 Jain Education International अरहंतो भगवंतो अहियं चहियं च नवि इहं किंचि । करंति कारवंति य घेण जणं बला हत्थे || " " उवएस पुण देंति जेण चरिएण कित्तिनिलयाणं । देवाण विहुति पहू किंमंग पुण मणुयमित्ताणं ॥ " आभिव्युत्पत्तिभिर्भगवतः स्वार्थसम्पत्परार्थसम्पच्चोपदार्शिता । चीरः सुभटः अपराजितः सन्नद्भुत कार्यकारी वा तथा चायमपि भगवान् महावीरः परीषहोपसर्गैरनुकूलप्रतिकूलैरपराजितोऽद्भुतकर्मकारी मोक्षमार्गप्रणेता । तथा चोक्तं " कोहं माणं च मायं च लोभं पंचेंद्रियाणि य । दुज्जयं चेत्रमप्पाणं सव्वमप्पे जिए जियं ॥ "" " जो सहस्सं सहस्साणं संगामे दुज्जए जिए । एक्कं जिणेज्ज अप्पाणं एस से परमो जओ ॥ "" For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142