Book Title: Jambudweeplaghusangrahani
Author(s): Haribhadrasuri, Nandighoshvijay, Udaysuri
Publisher: Jain Granth Prakashan Samiti

Previous | Next

Page 43
________________ • सटीक जंबूद्वीपसङ्ग्रहणी wwwwww I रक्ता रक्तवती चेति उभे सरिते । हैरण्यवते रूप्यकूला स्वर्णकूलाभिधं नदीयुगलं । रम्यके नरकान्ता नारीकान्ता चेति नदीमिथुनं इतीमा उदक्क्षेत्रस्थपण्महानद्यः । एवमपरविदेहेषु शीतोदा पूर्वविदेहेषु शीता चेति नदीद्वन्द्वं विदेहवत्तिं । एवमेताश्चतुर्दश । परिकरमाश्रित्य भरतवर्त्तिन्यौ गङ्गासिन्धू, ऐरवतस्थे रक्तारक्तवत्यौ चेति चतस्रो नद्यः, प्रत्येकं चतुर्दशसहस्रं परिवारपरिवृत्ताः । हेमवतगाभिन्यौ रोहितारोहितांशिके, हैरण्यत्रतनिवासिन्यौ रूप्यकूलास्वर्णकूले चेति चतसृणां सरितां प्रत्येकं अष्टाविंशतिः सहस्राणि परिवारः प्रतिपादितः । हरिवर्षवर्त्तिन्यौ हरिकान्ताहरिनद्यौ, रम्यकस्थे नरकान्तानारीकान्ते चेति चतस्रो महानद्यः प्रत्येकं षट्पञ्चाशत्सहस्रैः परिवारिताः । अपरविदेहवर्त्तिनी शीतोदा पूर्वविदेहनिवासिनी शीता चेति महानदीद्वयं प्रत्येकं द्वात्रिंशत्सहस्राधिकपञ्चलक्षी परिच्छद परिच्छिन्नं । तथा च भरतेऽष्टाविंशतिसहस्राणि परिवारः २८००० । हेमवते षट्पञ्चाशत्सहस्राणि ५६००० | हरिवर्षे द्वादशसहस्याधिकं लक्षमेकम् १,१२,००० । इत्येवमपाच्यां दिशि षण्णवतिसहस्रया समेतं लक्षमेकम् १,९६,००० । एवमैरवते भरतवदष्टाविंशति सहस्राणि २८००० । हैरण्यवते हैमवतवत् षट्पञ्चाशत्सहस्राणि ५६०००, रम्यके हरिवर्षवद् द्वादशसहस्याधिकं लक्षमेकं ११२००० इत्येत्रमुदीच्यामपि अपाचीवत् षण्णवतिसहस्रया समन्वितं लक्षमेकं १,९६,००० । विदेहेषु च चतुःषष्टिसहस्राणि दश लक्षाश्च नदीनां १०६४००० । एवं च सर्वसङ्ख्यया चतुर्दशलक्षा षट्पञ्चाशत्सहस्राणि १४५६००० सरितामिह द्वीपेऽभिहिता ॥ तथा पूर्वविदेहापाग्विजयेष्वष्टसु प्रत्येकं गङ्गासिन्ध्यभिख्यसरिद्विकभावात् षोडश, एवमपरविदेहेषु अपाग्विजयाष्टकवर्त्तिन्योऽपि तथैव षोडश नद्योऽवसेयाः । एवं पूर्वविदेहोदग्विजयेष्वष्टसु प्रत्येकं रक्तारक्तवत्यभिधनदीयुगलसद्भावात् ता अपि षोडश एवमपरविदेहेषूदग्विजयेष्वष्टस्वपि तथैव षोडश नद्यो द्रष्टव्याः । एवं द्वात्रिंशति विजयेषु चतुःषष्टिर्नद्यः । एवमत्र द्वादश चान्तर्नद्यः तथाहि शीताख्य महानद्या उत्तरकूले उदक्पूर्वविदेहेषु नीलवतो वर्षधरस्यापाग्दिशि शीतानीलवदन्तरालवर्त्तिन्यः तिस्रोऽन्तर्नद्यः । तत्र सुकच्छमहाकच्छविजयद्वयान्तरालवर्त्तिनी तयोः सीमाकारिणी गाहावत कुंडसमुद्भूता गाहावती नामान्तर्नदी प्रथमा । एवं कच्छावत्यावर्त्तविजयभिथुनान्तरिता तन्मर्यादाविधायिनी हृदावतकुंड निर्गता हृदावती नाम्नी द्वितीया । एवं मङ्गलावर्त पुष्कलाख्यविजययुगलान्तर्गामिनी तयोः सीम्नि वेगवकुंड समुत्पन्ना वेगवती तृतीयेत्येतास्तिस्रः । एवं तत्रैवापाग्विदेहेषु शीतापाक्कूले निषधरय वर्षधरस्योदीच्यां निपध्शीतान्तरागामिम्योऽपि तावन्यस्तथाहिं सुवास महावत्साभिख्यविजयद्वन्द्वान्तरिता तयोर्मर्यादायां तप्तकुण्डसंभूता तप्ताख्या चतुर्थी । एवं वत्सावतीरम्यविजयद्विकान्तरालवर्त्तिनी तयोः सीमाविधायिनी मचकुंडनिर्गता मत्ताभिधा पश्चमी । एवं रम्यकरमणीयकाभिधानविजययुगलान्तर्वर्त्तिनी तयो: सीमनि उन्मत्तकुण्डसमुद्भूतोन्मत्ताख्या १८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142