Book Title: Jambudweeplaghusangrahani
Author(s): Haribhadrasuri, Nandighoshvijay, Udaysuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सटीकजंबूद्वीपस ग्रहणी
च सम्मील्य साददशयोजनान्युच्चानि । तेषामपिकणिकाभुवनप्रमुख पूर्वमानादर्धार्धमानं वक्तव्यं । तेषु च श्रियो देव्या आभूषणादिवस वितिष्ठते । स्वरूपं च स्थापनातो यन्त्रकाच्चावसेयम् । इति प्रथमवलयम् ।
द्वितीयपरिक्षेपे मूठकमलापश्चिमोत्तर स्यां दिशि वायवीकोणे, उत्तरस्यां दिशि, पूर्वोत्तरस्यामैशान्यां दिशि च सामानि रुदेवानां चतुःसहस्रएङ्ख्या नि कमलानि । प्राच्यां चत्वारि चतुर्महत्तरिक - गुरुस्थानी देवीनां कमलानि, दक्षिणपूर्वस्यां आग्नेयाकोणे इत्यर्थः, अभ्यन्तरपार्षदानां अष्टसहसदेवानां तावन्ति कमलानि । दक्षिणस्यां च मध्यपार्षदानां दशसहस्र देवानां दशम स्राणि कमलानि । दक्षिणप्रतीच्यां नैश्यामित्यर्थः, बाह्य पार्षदा नां द्वादशसहस्रमङ्ख्या देवानां द्वादशसहस्राणि कमलानि । प्रत च्यां च सप्तकटकनायकानां सप्न का लानि । सर्वाणि संभाल्य द्वितायवलये एकादशोत्तरचतुस्त्रिशत्महस्रानि कमलानि । इति द्वितायवलयम् ।
___ अथ तृतीयपरिधी प्रत्येकं चतुर्दिक्षु चत्वारि चत्व रि सहस्राणि कमलानि आत्मरक्षकदेवानां भवन्ति । सर्वानि सम्मील्य षोडशसहस्राणि आत्मरक्षकदेवानां कमलानि भवन्ति । इति तृतीयवलयम् ।
चतुर्थाभ्यन्तरवलये द्वात्रिंशल्लक्षाभ्यन्तरा भेयोगिकदेवानां तावन्ति कमलानि तथाहि प्रत्येक चतसृषु विदिक्षु च चत्वारि चत्वारि लक्षाणि कमलानि । पिण्डिनानि सर्वाणि च तानि द्वात्रिंशल्लक्षाणि भवन्ति । इति चतुर्थव व्यम् ।। . पञ्चभमध्यवलये चत्वाशिल्लझमध्या भियोगिकदेवानां तावन्ति कमलानि तथाहि प्रत्येकं चतसृषु विदिक्षु च पञ्च पञ्च लक्षाणि कमलानि । पिण्डितानि तानि च चत्वारिंशल्लक्षाणि जायन्ते इत्यर्थः । इति पश्चमं वलायम् ।
षष्ठबाह्यवलयेऽष्टचत्वाशिल्लक्षबाह्याभियोगिक देवानां तावन्ति कमलानि तथा हि प्रत्येकं चतसृषु दिक्षु चतसृषु विदिक्षु च षट् षट् लक्षाणि कमलानि तानि च अष्टच वाशिलक्षाणि जायन्ते । इति षष्ठं वलयम् । सर्वाणि सम्मोल्य विंशतिलक्षाधिकैक कोटिसङ्ख्या नि आभियोगिकदेवानां कमलानि मूलकमलेन सहितानि तानि च शत्सहस्रैकशतविंशत्यविकैकशतविंशति लक्षाणि कमलानि भवन्ति तथा चोक्त
'कोटये का विंशतिर्लक्षा पद्मानां सर्वसङख्यया सहस्र णि च पञ्चाशच तं विंशतिसंयुतम् ॥१॥
सवांणीमान शाश्वत नि पृथ्वीकायरूपाणि कमलाकृतितया कमलतया वर्ण्यन्ते । एतानि उत्तरोत्तर अर्धार्धमानानि यदुक्त " क्रमाद(र्धर्धमानाजाः परिज्ञेया सर्वेऽप्यमा' एवमन्यद्रहेष्वपि कमलपरिवारो वाच्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142